________________ काव्यमाला। मित्थमपि संभाव्यते / अथवा कथं न स्मरिष्यन्ति यदि जातिस्मरा भविष्यन्ति / कृष्णः -कुत एतत् / सुदामा आबालवृद्धवनितं पशुपक्षिवृक्ष गुल्मोलपप्रभृतयः किल गोकुलस्थाः। त्वद्विप्रयोगजनितार्तिकुकूलवह्ना ___ वापाकपाकपरिपाकमिवोद्वहन्ति // 34 // किं बहुना / प्रहीणप्राणेव प्रमुषितनिधानेव तमसि प्रविष्टेव प्रत्यस्तमितरविचन्द्रद्युतिरिव / दवानौ मैग्नेवाचिरविरहखिन्नेव विषमामवस्था प्रस्थानप्रभृति भवतो नन्दवसतिः // 35 // (प्रविश्यापटीक्षेपेण) , दती-(ससंरम्भम् / ) भगवन्भुवनभागधेय, अनन्यशरणामेतां त्वदेकायत्तजीविताम् / विरहातिवलद्वाधां राधां कथमुपेक्षसे // 36 // कृष्णः-(ससंभ्रमं परिवृत्य / ) कथमियं राधासहचरी विलासवती विवशहृदयेवात्याहितमिवावेदयति प्रेयस्याः / तन्निपुणमवगच्छामि तावत् / (प्रकाशम् / ) विलासवति, अथ किमवस्था तत्रभवती मज्जीविताधिदेवता राधा। विलासवतीसजलैनलिनीदलैर्मृणालैः सुमनोभिर्नवपल्लवैः पटीरैः / शतशः परिशीलितापि शीतैरुपचारैः प्रतिबुध्यते न राधा // 37 // 1. 'मग्नेवाशनिविनिहतेवेति' इति क-पाठः. 2. 'चलद्वाधा' इति क-पाठः: ३.'कथय किमवस्था' इति ख-पाठः.