________________ 4 अङ्कः) कंसवधम् / इयमपि नवगुच्छस्वच्छवक्षोजकान्तिः . सलयकिसलया वा कापि कान्ता लता वा // 31 // सुदामा-इत इतस्तमालमालाविलोकनेन मनो विनोदयत्वायुष्माद / कृष्णः -(समन्तादवलोक्य / ) सखे, उद्यच्छिलीन्ध्रमरविन्दसुगन्धबन्धु मन्दानिलं निचुलकुञ्जमिलन्मिलिन्दम् / उत्पश्यतो भवति हन्त दुरन्तचिन्ता संतापसंततिनिदानमिदं वनं मे // 32 // सुदामा-(स्वगतम् / ) कथमत्यावेगो विरहस्य / तदेनं रहस्यविश्रम्भालापैविनोदयिष्यामि / (प्रकाशम् / ) आयुष्मन्, अतिदूरमारूढः प्रौढप्रतापस्तपनः / तदस्मिन्विविक्ते बालशैवालशीतले शिलातले समुपविश्य ललाटंतपां माध्याहिकी वेलामतिवाहयामः / - कृष्णः-साधु संविहितम् / ममाप्येष मनोरथः / तत्पुरोभूय निदर्शय सोपानपथम् / आर्यमक्रूरं मद्धचनेन विज्ञापय, यदतिक्रामति माध्याह्निकी संध्या तदनुष्ठीयतां तदुचितं कर्मेति / तदुपरोधापराधपरिहाराय पैरिपालयामि तीरपरिसरसरसदेशपरिशीलनेन / आर्यबलदेवश्च देवपूजोपयो यानि तिलकुशकुसुमादीन्युपाहरन्भवन्तं परिचरिष्यति / तावदहमपि सुहृद्वियोगविक्लवमात्मानं सुदाम्ना वयस्येन समं स्वजनकथालापलीलाभिविनोदयिष्यामीति / सुदामा-यदादिशत्यायुष्मान् / (इति तथा करोति / ) ___ . (ततः प्रविशति कृष्णः सुदामा च।) कृष्णः-सखे, निजजनविरहव्यथा यथास्माननुकलमुत्तपति प्रेतिप्रतीकम् / अपि सखिसुहृदस्तथा कथंचित्स्मरयति नः कुतुकप्रसङ्गतोऽपि // 33 // सुदामा-आयुष्मन् , त्वदेकजीवितानां त्वन्मात्रदेवतानां च कथ१. 'निदेशय' इति क-पाठः. 2. 'आर्य मद्वचनेनाक्रूर' इति क-पाठः. 3. 'परिपालयिष्यामि' इति क-पाठः. 4. 'योज्यानि' इति ख-पाठः. 5. प्रत्यङ्गम्.