________________ काव्यमाला। सजलजलदनीलं त्वामुदीक्ष्योर्ध्वकण्ठा नटति विततबह मण्डली बर्हिणानाम् / मधुरमधुरकेकाराविणी बन्धुबुद्ध्या समुपसरति बर्दापीडिनं संभ्रमेण // 26 // सुदामा-इदमपरमुदीक्ष्यतामायुष्मान् / उत्कर्णतर्णककुलाकुलितानि दोग्धं ___ संदानितान्यपि भवन्तमनुद्रवन्ति। . उत्पुच्छमुन्मुखमुदश्रु कृतार्तनाद ___ मात्मानपेक्षमभितः किल गोधनानि // 27 // रामः-(परितोऽवलोक्य / सहर्षम् / ) आयुष्मन्, इतोऽवलोक्यताम् / नेदीयांसस्तरणितनयातीरवानीरकुञ्जा गुञ्जन्म स्वरमधुकराराविणः स्वागतेन / पान्थानस्मानुचितमतिथीनाहयन्तीव शाखा हस्तन्यस्तैः फलकिसलयैरानमन्तः समन्तात् // 28 // (किंचिदन्तरं गत्वा चिरं निरूप्य।) इदं चापरमनुरूपं निरूपयत्वायुष्मान् / अधिरजनि निरुद्धोद्धान्तभृङ्गार्तगुञ्जा___ रवमुखरितगर्भा भान्त्यमी पद्मकोषाः / निभृतमनुभवन्तोऽनाहतं नादमन्त विजितपवनवेगाः किं नु योगाधिरूढाः // 29 // कृष्णः—(कलिन्दनन्दिनीं विलोक्य निर्वर्ण्य सोन्मादम् / ) सखे सुदामन्, पश्यन्नेतां चपलशफरीलोचनां पङ्कजास्यां / कोकद्वन्द्वस्तनभरनतां बालशैवालकेशीम् / / भृङ्गश्रेणीमधुरवचनां राजहंसप्रचारां व्यासक्तोऽपि क्षणमिह पुनः प्रेयसी स्मारितोऽस्मि // 30 // (तौरवनराजि विलोक्य संविश्रब्धम् / ) मधुरमधुरमेतत्कूजितं कोकिलानां किमथ नगरनारीम मञ्जीरनादः / 1. 'सविभ्रमं' इति ख-पाठः.