________________ 4 अङ्कः) . कंसवधम् / दिवसश्रीविजयजयन्मणिमयनीराजनामलस्थानम् / दिनकरमङ्कुरितांशु विकचजपापुञ्जमञ्जुलं वन्दे // 21 // कृष्णः-आर्य, कथमयं गगनपथपान्थो भगवानतिदूरमुजिहासमानोऽप्युदयगिरिविरहपर्युत्सुक इव मन्थररथारोहणसु बमनुभवति / तदुप्रेक्षे मधुरमधुरभृङ्गीगीतसंगीतभङ्गी समसमुदयमङ्गीकृत्य सन्मङ्गलानि / त्रिभुवनमभिषेकात्पङ्किलं कुङ्कुमाद्भिः समुपसरति मन्दं मन्दमम्भोजबन्धुः // 22 // रामः-अहं पुनरेवमुत्प्रेक्षेनिशामशेषामुपभुज्य वारुणी प्राचीमुपेत्याथ तयावधीरितः / तदनिलाक्षारसरञ्जिताङ्गको मन्दं विनिर्याति तदङ्गणाबहिः // 23 // अथवा / ताराः पारदगोलका इह नभःकाचोच्चकुप्यां क्षणं ___ न्यस्ताः संहतिमेत्य सान्द्रकिरणैश्चन्द्रभ्रमं कुर्वते / अप्येताः सकलां निशां परिपतींपाग्निपाकक्रमा त्प्रातः सिद्धरसात्मना परिणमन्त्यादित्यबिम्बच्छलात् // 24 // (परितोऽवलोक्य सहर्षम् / ) कथममी तरुणतरणिकिरणरञ्जितशिखरराजिराजितशाहलाभोगभासिनो भूमिभागाः / तथा हि / तरणिकिरणलेशाः शक्रगोपप्रकाशा.. स्तरुणतृणशलाकाश्लेषिणः संविभान्ति / अभिनवरविबिम्बस्पर्धया पराधा इव मरकतशूलेप्वर्पिताः पद्मरागाः // 25 // अकरः-(समन्तादवलोक्य / सकौतुकम् / ) भगवन्कृष्ण, इतः पश्यतु भैवान् / 1. 'सौरकिरणैः' इति क-पाठः. 2. 'शाद्वलभाग' इति ख-पाठः. 3. 'इत इतः' इति क-पाठः. 4. 'भगवान्' इति ख-पाठः.