________________ काव्यमाला / ग्गिणीणम् / जह वच्छाणं कल्लाणमप्पडिहदं भोदि / ता गच्छामो लहु लहु घरसंणिवेसम् / (क) (इति नन्दमवष्टभ्य प्रतिष्ठते।) नन्दः-अये, दूरं गतोऽपि हृदये विनिविष्ट आस्ते संवीक्ष्यते च पुरतः परितः प्रसर्पन् / तत्कि ममैष मतिविभ्रम एव वा स्या द्यत्प्रस्थितो मधुपुरी मधुभित्सरामः // 18 // .. (स्मृतिमभिनीय।) मर्माण्युच्चैर्व्यथयति मनो हन्त मथ्नाति यत्ना द्वैर्यग्रन्थि श्लथयति सखे किं च मुष्णाति तृष्णाम् / कष्टं दृष्टिं तिरयति हरेर्बालकेलीकलापो ऽकस्मादस्मत्स्मृतिशतशिरःशेखरीभूय भूयः // 19 // यशोदा-(संस्कृतमाश्रित्य / ) आर्य, दुष्प्रवेशः खल्वेष घोरतरो घोषप्रदेशः / तथा हि / नार्यों रुदन्ति न रुवन्ति पतंगसंघा - गावस्तृणानि न चरन्ति न वान्ति वाताः / भृङ्गाः पिबन्ति न मधूनि हरौ प्रयाते / निर्जीविता इव दिशः प्रतिभान्ति शून्याः // 20 // तदद्य वत्सप्रवासशोकावेशविक्लवमात्मानमात्मनैवावष्टभ्य व्रजवासिनो लोकान्परिसान्त्वयावः। (इति निष्कान्तौ।) (ततः प्रविशतो रामकृष्णौ।) रामः-(प्राचीमवलोक्य / ) कथमुदितभूयिष्ठ एव भगवान्किरणमाली / तद्यावदेनमुपतिष्ठे / (अञ्जलिं बढ़ा / ) (क) आर्य, समाश्वसिहि समाश्वसिहि / अयुक्तमिदानी शोचितुम् / अमङ्गलं खल्वेतत्प्रवसितानाम् / तद्वर्धापयस्व शुभाशीभिः / मानयस्व कुलदेवताः / अय॑न्तां स्वस्तिवाचनिका ब्राह्मणाः / दीयन्तां वायनानि सौभाग्यवतीनाम् / यथा वत्सानां कल्याणमप्रतिहतं भवति / तद्गच्छावो लघु लघु गृहसंनिवेशम् /