________________ 4 अङ्कः] . कंसवधम् / शोकोद्वेलविलोलबाष्पसलिलम्लिष्टदृष्टी जरा___ जीर्णावुज्झितपाटवेन्द्रियगणावन्धौ निमग्नौ शुचि / आवां सौनिकदारुणेन विधिना प्रस्थापयन्तौ युवां ___ हस्तेनाप्यतिवेलवेपथुभृता न स्प्रष्टुमीशावहे // 14 // (रामकृष्णावुपसृत्य पित्रोरङ्कमधिरोहतः / तयोर्नयने उन्मार्जयन्तौ / ) आगर्भसंभवादस्मच्चिन्तासंतापतान्तयोः। पित्रोः क्लेशाय नौ जन्म केवलं किल गोकुले // 15 // तदद्य भवन्तौ सप्रणयप्रणाममनु प्रार्थयावहे / / / संमान्य मातुलादेशं द्रक्ष्यामो न चिरेण वाम् / युष्मद्वाष्पाम्भसा यस्मादभिषिक्तौ तदास्पदे // 16 // वृद्धगोपौ-यथाभिरुचितमायुष्मतोः / वाता वान्तु शिवा दिशश्च विदिशः सन्तु प्रसन्नाः सदा ___ नद्यः शीतजलाः सवन्तु तरवः पुष्णन्तु सत्संपदः / पन्थानः सिकतोत्तरा विदधतु क्षेमं च निष्कण्टका देवश्चक्रधरश्च तत्र भवतोर्विघ्नान्विजेनीयताम् // 17 // अक्रूरः-प्रतिगृह्यतामाशिषः पित्रोः / अतिपतति यात्रामुहूर्तवेला / रामकृष्णौ-शिरसा गृहीताः / (इति निष्क्रान्तौ / ) . नन्दः-(चिरं दूरमवलोक्य / ) आर्ये, कथमतिक्रामतो लोचनपथं वत्सौ / तदिदानीमनीशोऽस्मि शोकविक्लवान्यङ्गानि वोढुम् / (इति मूछितः पतति / ) यशोदा-अज्ज, समस्ससिहि समस्ससिहि / अज्जुत्तं दाणिं सोइउम् / अमङ्गलं खु एवं पवसिदाणम् / ता वडावेहि सुहासीहिं / मणावह कुलदेवदाओ। अच्चिअन्दु सोत्थिवाअणिआ बम्हणा / दिजन्तु वायणाई सोह 1. 'प्रश्लिष्ट' इति ख-पाठः. 2. शोके. 3. 'ईहामहे' इति क-पाठः. 4. 'बाष्पभरैः' इति ख-पाठः.