________________ 32. काव्यमाला। .. समाजमङ्गलाचारगीतध्वनिरुपगोपुरमुच्चैरुच्चरति, तथा तर्कयामि प्रस्थिती रामकृष्णाविति / तद्यावत्प्रत्यनन्तरीभूय प्रास्थानिकोपदासंपत्संपादनेन सपुत्रौ गोपवृद्धौ परिचरावः / (इति निष्क्रान्तौ / ) प्रवेशकः.। (ततः प्रविशतो रामकृष्णौ, सुदामारावलम्बितौ यशोदानन्दगोपौ च / ) यशोदानन्दगोपौ हा वत्स राम रमणीयमुखारविन्द हा कृष्ण वृष्णिकुलकैरवकाननेन्दो / क्व स्थः समेत्य सहसा परिरभ्य गाढ मङ्गानि शीतलयतं परितप्तयोनौ // 12 // (इति मूर्छा नाटयतः / ) अक्रूरः-(वसनाञ्चलेन वीजयन् / ) गोपद्वौ, समाश्वसितम् / अनवसरः खल्वयं शोकस्य / ननु प्रवत्स्यतोर्वत्सयोः प्रवर्त्यतां मङ्गलाचारः / गोपवृद्धौ-(समाश्वस्य / सोपालम्भम् / ) हन्त भोः, उत्पत्तिप्रभृति प्रतिक्षणमतिप्रीत्या मयाराधिता यूयं बल्युपयाचितव्रतमहादानोपदानैः सुराः / धिकष्टं कथमेष तस्य विषमः पाकः पुरः प्रोदभूद्यद्वत्सौ समुपाहरामि बलये कंसाय विश्वद्रुहे // 13 // (रामकृष्णावुपसृत्य पादयोः पततः।) अक्रूरः-गोपवृद्धौ, प्रवत्स्यन्तौ रामकृष्णौ भवन्तावभिवादयेते / तत्प्रस्थानोचिताभिराशीभिरभिवर्धयतमेतौ / गोपा—(सास्रवर्षम् / ) हा वत्सौ, क्व वतथे / न खलु कथंचित्परिभावयितुमीशावहे युवाम् / 1. 'प्रस्तावना' इति क-पाठः. 2. 'नावसरः खल्वेष शोकावेशस्य' इति ख-पाठ..