________________ कंसवधम् / यतमः किल मातुलावांसवासो भागिनेयानाम्, भगिनीनां च भर्तृपक्षात्पितृपक्षे पक्षपातो बंहीयानेव / रत्नापीड:-आः कथमनेकधाध्यक्षयन्नप्यमीषां प्रेमबन्धपरिपाकमनभिज्ञ इव पृच्छसि / न जानासि किं मातुलवर्णिकाप्रतिच्छन्नोऽयमसुरोत्तंसः कंसो वासुदेवाय द्रुह्यन्वसुधामधिवसति / तदेवं तयोरप्रतीकारमत्याहितमुपस्थितमवगच्छामि / दैवज्ञः-सत्यमात्थ, किं तु न संभावयामि परमभागवतेन मनीषिणा प्रियसुहृदाक्रूरेण प्रत्यनन्तरीभूय नीयमानयोरन्योः किमप्यमङ्गलम् / न खल्वयमणुमपि राज्ञो दुराशयमवगत्य विपाकदारुणं दूत्यकर्माङ्गीकुर्यात् / रत्नापीडः-आः, कथमविदग्धमुग्धमतिरसि / नेद्यस्त्यकर्तव्यं नाम परप्रेष्यभावमापन्नानाम् / राजानुवर्तिनां पुनर्विशेषेण / ते हि राजानुरञ्जनमेव बहुमन्यमानाः क्षमां सत्यं दयां धर्म घृणां लोकभयं दमम् / विस्मृत्य केवलं रोजरञ्जनं पर्युपासते // 10 // दैवज्ञः-महाशयः खल्वक्रूरो न दुराशयमनुसरिष्यति / रत्नापीड:-(विहस्य / ) किं न पश्यसि / अन्तर्मलिनसंसर्गाच्छ्रतवानपि दुष्यति / यच्चक्षुःसंनिकर्षेण कर्णोऽभूत्कुटिलाशयः // 11 // दैवज्ञः—(निमित्तं सूचयित्वा / ) शान्तं पापम् / प्रतिहतममङ्गलम् / खस्त्यस्तु गोकुलवासिभ्यः। (नेपथ्ये कलकलः / ) रत्नापीड:-(सादरमाकर्ण्य / प्रकाशम् / ) सखे, अवधीयताम् / यथायं मधुरमुरजवेणुवीणाशङ्खकाहलबहलकोलाहलान्तरालोन्मीलत्प्रचुरपुरपुरंध्री 1. 'प्रियतरः' इति ख-पाठः. 2. 'नास्त्यकर्मविचारणं नाम' इति ख-पाठः. 3. 'राज्ञां रञ्जनं' इति ख-पाठः. 4. 'खल्वसौ' इति ख-पाठः. 5. 'पश्यामि' इति क-पाठः. 6. 'कुटिलाश्रयः' इति ख-पाठः. 7. 'विधीयताम्' इति ख-पाठः.