________________ काव्यमाला / (प्रविश्य / ) दैवज्ञः-(सहर्ष स्वगतम् / ) कथं क्षणमपि व्याक्षेपासहिष्णवो महतां मनोरथाः / यतः प्रस्थानोत्सुकयोर्वत्सयो रामकृष्णयोरतिप्रशस्ततरो यात्रामुहूर्त उषस्येव समुपस्थितः / तथा हि / चन्द्रः पुष्पगतस्तृतीयभवने सिद्धिप्रदो दक्षिणः केन्द्रस्थाः कथयन्ति सौम्यखचरा योगाधियोगं शुभम् / अम्भःसंभृत एष कुम्भनिवहो वेश्याशिरःस्थः पुरः . प्रस्थाने कथयन्ति शात्रववधं सर्वेऽर्थसिद्धिं तथा // 7 // तत्सत्वरमुपसृत्य यात्रोचितमङ्गलाचारोपकरणान्युपाहरामि / (इति ससंभ्रममवतीर्य पुरोऽवलोक्य / ) अये,कथमयमन्तःपुरप्रतीहारो रत्नापीड इत एवाभिवर्तते / तदस्मानिशीथवृत्तं नन्दाक्रूरयोः संवादमवगच्छामि / (इत्युपसर्पति / ) दैवज्ञः-अये रत्नापीड, कथमोन्मीलितलोचन एव संचरन्नतिघूर्णमानानामङ्गानामनीश्वर इवावलक्ष्यसे / रत्नापीड:-किं भणामि / कष्टात्कष्टतरः खलु परप्रेष्यभावः / यतः / श्रान्तोऽपि हन्त रजनीगुरुजागरेण ___ कार्यातिपातचकितो न शये क्षणार्धम् / भ्रूभङ्गवीक्षणवितर्कितचित्तवृत्ति-' नित्यानुवृत्तिनिरतः प्रभुवृत्तमीक्षे // 8 // दैवज्ञः–तत्कथय कारणं रात्रिजागरणस्य / रत्नापीडः—सखे, किं न जानासि / अक्रूरागमसंभ्रमादुपहृतैरातिथ्यसंभावना___ संभारैरतिवाहितो न विदितः पूर्वोऽर्धरात्रो मया / विश्लिष्यत्सुतसंज्वरातुरजरगोपप्रमीलामिल___ च्छोकस्त्रीपरिसान्त्वनैनयनयोरेव प्रभाता निशा // 9 // दैवज्ञः—हन्त भोः, कथं हर्षस्थाने विषादावसरः / यतः प्रियात्प्रि१. 'तस्मात्' इति ख-पाठः. 2. 'अभिलक्ष्यसे' इति क-पाठः. .