________________ कंसवधम् / प्रभातश्रीरेषा विलसति पुरःस्था सुकृतिनां . मिमक्षूणां जहृद्युमणिविधिजासंगम इव // 2 // (पुरोऽवलोक्य / ) कथमयं दैवज्ञः प्राचीनगोपुरशिखरमध्यमध्यारूढो मिश्रोदयं प्रतीक्षमाण आस्ते / तद्यावदुपसामि / (गतिवैकल्यमभिनीय / स्वगतम् / ) न जराजर्जरैरङ्गैरेतां सोपानपद्धतिम् / आरोढुमवरोढुं वा मनागुत्सहते मनः // 3 // अहह, कथं दुर्दैवेन दुःस्थामेनामवस्थां प्रतिलम्भितोऽस्मि / तथा हि / अन्यत्रेहितमन्यतो निपतति क्लेशादुदस्तं पदं __ मुष्टिर्न क्षमते क्षणं कलयितुं यष्टिं प्रथोर्वेपथोः / न श्रोत्रे शृणुतश्चिरायं परितस्तारस्वरं व्याहृतं धिक्कष्टं जरसातुरस्य मरणं मन्ये महानुत्सवः // 4 // हन्त भोः, गलति वदने लाला वाचः स्खलन्त्यपरिस्फुटाः स्रवति सततं चक्षुर्नासं न संचरतः पदे / मुखमदशनं दृष्टिः शून्या रथा च विचेष्टितं शिव शिव जरा बाल्यं भूयः प्रसौति नवं नवम् // 5 // अपि च / अन्योक्त्या परिचिन्वते परिजनान्सचार्यमाणाः पर स्कन्धन्यस्तभुजाश्चिरेण चरणाक्षेपं समातन्वते / न स्वेनैव कृतं स्मरन्ति सहसा त्रुध्यन्ति निष्कारणं वृद्धव्याधितभूभुजः किल समावस्था विधात्रा कृताः // 6 // तदिहस्थ एवैनमाहूय निवेदयामि पुरोधसो निदेशम् / (इति वाहुमुत्क्षिपन्नायति / ) 1. जमुद्युमणिविधिजा गङ्गायमुनासरस्वत्यस्तत्संगमे प्रयागे मिमक्षूणां स्नातुमिच्छताम्. 2. 'प्राचीनप्राची' इति क-पाठः. 3. 'परं' इति क-पाठः.. 4. 'चरणाक्षेपे समारम्भिणः' इति क-पाठः. 5. 'वाहू' इति ख-पाठः,