________________ . 3 अङ्कः] . कंसवधम् / सूतः-साधु मन्त्रिंतमायुष्मता / तदेते संयता वाजिनः / समबतरत्वायुष्मान् / . (इति रथादवतरणं नाटयतः / ) अक्रूरः-(पुरतो निरूप्य / सवितर्कम् / ) अये, कथमियं व्रजपरिसरभूमिप्वापतगोखुराग्र क्रथनसिकतिलासु व्यक्तपद्मध्वजश्रीः / समविषमनिपाता शैशवं व्यञ्जयन्ती स्मरयति पदपतिः कापि कस्यापि पुंसः // 26 // (ध्यानं नाटयित्वा / स्वगतम् / ) एतद्रूढं सत्समूहैरमूढ़ोंगारूडैर्यत्कथंचित्समूढम् / लीलोन्मीलडिम्भदम्भस्य विष्णोर्वन्दे वेदान्तैकवेद्यं पदं तत् // 27 // (नेपथ्ये कलकलः / ) अक्रूरः-(कर्ण दत्त्वा / ) अये, कथमयमिदानी कासांचिन्नयनाञ्चलं विचलयन्नाभरिवामभ्रुवां दोवलीरिह दोहने विकलयन्मौलि मुहुर्दोलयन् / अन्तः कन्दलयन्नमन्दममलामानन्दकन्दावली विघ्नौषं दलयन्मुरारिमुरलीनालीरवः श्रूयते // 28 // परिभाव्य स्वगतम् / ) तावन्माध्वीक साध्वी भवतु तव कथा क्षीरपूरासि वन्द्य स्तावत्तावच्चकोरी चुलुकयतु चिरं शीतरोचिर्मरीचीन् / तावत्पीयूषयविदधतु विबुधास्तोषपोषं कथंचि___ द्यावन्नाकणितैषा मधुरिपुमुरलीमाधुरीसाधुरीतिः // 29 // (सहसा परावृत्य पुरोऽवलोक्य / सहर्षम् / ) अये, कथमियमित एव मुखरितकलभृङ्गीमाधुरीसाधुरीति क्षरदधरमधूलीमोहिताशेषविश्वः / अमलतमतमालश्यामलः कोमलाङ्गः समुपसरति नेत्रानन्दनो नन्दसूनुः // 30 // 1. 'अथेयम्' इति ख-पाठः. 2. 'मनसां' इति ख-पाठः. 3. 'पोयूषपानैः' इति ब-पाठः,