________________ काव्यमाला। सूतः-आयुष्मन, ___ चारणेन परिचर्य समन्तादद्रिकाननदरीः परिपूय / संप्रति प्रतिनिवर्तयितासौ गोधनानि किल गोकुलनाथः // 21 // तथा हि / आकर्णयत्वायुष्मान् / चम्पे चन्दनि चन्द्रिके चमरिके चन्द्रावलि श्यामले ___ गङ्गे गोमति गौरि गीतरसिके गायत्रि गोदावरि / धीरे धीवरि धूसरे धवलिके कालाक्षि कालीति च .. व्याहाराः परितो हरन्ति हृदयं हेम्बारवाश्राविणः // 22 // अकरः-(कर्ण दत्त्वा।सानन्दम् / ) सूत, इतोऽपि रमणीयमाकर्ण्यते / " अनुसृतकरतालैवेणुवीणानुयातै. मुखरितकल0ङ्गैडिम्भडम्फाभिरामैः / मधुरमधुरगीतै कतैर्गोधनाना मिदमुदयति नादाद्वैतमानन्दसान्द्रम् // 23 // (पुनः कर्णे दत्त्वा / ) क्षीरस्यावेगधावद्रभसनिपतितस्तन्यपानोर्जदोजः कूर्दद्वत्सावरोधव्यसनिशिशुशताकूतकोलाहलाढ्यः / गम्भीराभीरकूम्भीकुहरपरिणमडीरगोक्षीरधारा ध्वानोऽध्वन्यध्वगेभ्यः पिशुनयति चिरादेष गोष्ठस्य गोष्ठीः॥२४॥ मृतः—(सोत्साहम् / ) अहह, संप्रति हुंकृतमांकतहीहीहीकृतधुंधुंधुमारवैर्मुखराः / ___ व्याकुलबालकगोकुलवत्सकुलैः संकुलाः ककुभः // 25 // अक्रूरः-सूत, समासादितप्रायास्तदिदानी नन्दघोषोपशल्यभूमयः / तत्संयम्यन्तां प्रग्रहाः / यावद्रामकृष्णचरणनलिनविन्यासपूतपांसुसंपर्का दात्मानं पवित्रयन्तौ पादचारेण गोपुरपरिसरशिखरमारुह्य नन्दनन्दनानुगमनमनुपालयावः / 1. चम्पे इत्यादीनि धेनुसंबोधनानि. 2. हम्बा धेनुशब्द:. 3. शृंङ्गडम्फादयो वाद्यविशेषाः.