________________ कंसवधम् / 25 विलसति तैददूरेऽतुच्छतापिच्छगुच्छा . वलिवलयितवल्लीवेल्लिता नन्दपल्ली.॥ 14 // अक्रूरः-(निपुणं निरूप्य। ससंभ्रमम् / ) सूत, संभावयामि तावत् / गिरिशिखरविरूढप्रौढहिन्तालमाला पिहितगगनगर्भभ्राम्यदूर्जध्वजायः / विहगविहृतवेगव्यग्रशाखाकराप्रै स्त्वरयति परिरब्धं नन्दघोषः किमस्मान् // 15 // मृतः—(किंचिदन्तरं गत्वा रथवेगं नाटयन् / पुरोऽवलोक्य / ) आयुष्मन, उपवनतरुखण्डहिण्डमानाण्डजततिभिर्गृहमेधिहोमधूमैः / अपि च शिशुपशूद्धतै रजोभिः किमपि पुरस्तिमिराद्वयं चकास्ति // 16 // (पुनः सविषादम् / ) हन्त भोः, अस्तमिते दिननाथे चिरयति चन्द्रे स्फुटासु तारासु / ___ सहसा तमःप्रधानाकुलितं हन्त भूतलं तरलैः // 17 // तथा हि। तमःश्यामे व्योम्नि स्फुटकनकलेखाङ्कुरचय__ प्रभा विद्योतन्ते निकष इव खद्योतनिकराः / सहस्रांशोरंशा इव चरमशैलव्यतिकरा द्विशीर्णाः पर्यस्ताः पथिकप्टथुनिःश्वासपवनैः // 18 // अक्रूरः-सूत, साधु समर्थितम् / तथा हि / मेचकातिदलान्तरलीनज्योतिरिङ्गणचमत्कृतिरम्याः। पादपा इह चकासति मेरोः मां गता इव हरिमणिकूटाः // 19 // (कर्ण दत्त्वा। सहर्षम् / ) हन्त भोः, स्नेहप्रस्नुतपीवरस्तनभरप्राग्भारभूरिक्षर___ क्षीरक्षालनपिच्छिलैः प्रतिपदं मार्गेनिषिद्धत्वराः / हर्षोत्पुच्छयमानतर्णकरवोत्की बजायोत्सुका गोसंघाः प्रतिहुंकतैरिह मुहुः श्रोत्रोत्सवं कुर्वते // 20 // 1. भ्रमत्पक्षिसमूहैः. 2. 'खद्योतो ज्योतिरिङ्गणः.'