________________ 24 . काव्यमाला। व्रजपरिसरमेष्यज्योतिषां ज्योतिरेकः सफलयति कदा नश्चक्षुरिन्दीवराक्षः // 9 // सूतः अस्तं यतापि किल मस्तकवर्तिनासा वस्ताचलोऽहिमरुचा रुचिमभ्यलम्भि / प्रायः परोपकतये कृतिनोऽनपेक्ष्य स्वार्थ विपत्कवलिता अपि संघटन्ते // 10 // अक्रूरः-(निपुणं निरूप्य / सानन्दम् / ) अहिमकरमरीचिधातुरागैः शबलितमम्बुदमण्डलं दधानः / अनुहरति गिरिस्तुलां मुरारेवलयितचित्रशिखण्डमण्डनस्य // 11 // सूतः-अहह, असमञ्जसम् / / अयमुदयमहीभृन्मस्तकन्यस्तपादः खरतरकरदुःस्थां प्रौढिमाढौकमानः / दिवसमणिरथोच्चैर्द्राक्परां प्राप्यं काष्ठा ___ महह विधिविरोधादम्बुधौ मज्जतीति // 12 // अक्रूरः-सूत, साधूत्प्रेक्षितम् / तथा हि / निर्मज्ज्याधिपयोधि भर्तरि रुचां लोकान्तरं प्रस्थिते संध्याग्निं विशति प्रमीलति निजेम्भोजे दिनश्रीरियम् / यत्काष्ठाकर एष रज्यति तमोधूमोऽश्नुते रोदसी संक्रन्दन्ति खगाः समेत्य ददते विप्राश्च तोयाञ्जलीन् // 13 // (पुनः सूतं प्रति / ) अये, बहीयानतिवाहितः पन्थाः / तदधुनापि कियदन्तरं नन्दवाटस्य / सूतः-आयुष्मन, इतो नेदीयानेव लक्ष्यते / तदुपगतप्रायानेवास्मानवगच्छ / तथाहि निरूपयत्वायुष्मान् / अधितरणितनूजातीरवानीरपाली . परिसरमतिकाली भाति तालीवनाली। . 1. गच्छतापि. 2. 'निजाम्भोजे' इति ख-पाठः. 3.. 'तदुपात्तप्राया' इति ख-पाठः.