________________ काव्यमाला। तृतीयोऽङ्कः / (ततः प्रविशति रथारूढोऽक्रूरः सारथिश्च / ) अक्रूरः-(दीर्घमुष्णं च निःश्वस्य / ) हन्त भोः, असारे संसारे विषविषमपाके नृपसुखे कतान्तेनाक्रान्ते प्रकृतिचपले जीवितबले / ध्रुवापाये काये विषयमृगतृष्णाहतहृदः परप्राणैः प्राणानहह परिपुष्णन्ति कुधियः // 1 // अहो, अस्य दितिजकुलकलङ्कस्य कंसस्य निर्विवेकता निघृणता च / यतः / खस्त्रीयेषु हतेषु सप्तसु मनाङ्नाद्यापि निर्विद्यते तादृक्चेदयमष्टमोऽपि किमितस्त्रासेन संभ्रम्यते / . कस्त्रातुं प्रभवेद्भवेद्यदि हरिहन्तावतीर्णः स्वयं ___ मृत्यौ जन्मवतां ध्रुवे च मरणं श्रेयः परं श्रीपतेः // 2 // (विस्मृश्य / ) अथवा किमेनमासुरीमतिदारुणां प्रकृतिमाश्रितमुपालभे। ननु तावदहमात्मानमेव तादृशे नृशंसे कर्मणि प्रवर्तमानमाकलयामि / तथा हि / राजाराधनतत्परेण सहसा स्वीकुर्वता शासनं कृत्याकृत्यविचारवञ्चितधिया धर्मोऽपि नापेक्षितः / स्टष्टा नैव घृणा तृणाय च मतो लोकस्त्रपाप्युज्झिता धिक्कुक्षिभरिणा मयाद्य कृपणाः प्राणाः परं पोषिताः // 3 // सूतः-आयुष्मन्, कथमयं महाराजो जानन्नपि खजनसंबन्धमतिस्नेहपर्याकुलहृदयेन भवता वत्सौ रामकृष्णावुपनिनीषति / अक्रूरः-सूत, सोऽयं कुटिलनीतिपण्डितः परस्परमस्मासु विरोधमुत्पाद्य सुन्दोपसुन्दन्यायेन सर्वानेवास्मान्संजिहीर्षति / तथा हि / नानेष्ये यदि तौ ध्रुवो मम वधस्तच्छासनातिक्रमा दाहर्तु यदि यामि वक्ष्यति तदा को वा न मां सौनिकम् / निन्देन्नन्दनविप्रयोगविवशो मां नन्दगोपो जैर __ ज्ञाति:क्ष्यति वा चिरादहरहः शप्स्यन्ति गोपाङ्गनाः॥४॥ 1. 'संभाव्यते' इति ख-पाठः. 2. 'ध्रुव' इति ख-पाठः. 3. 'ततः' इति ख-पाठः 4. हिंसकम्. 5. वृद्धः.