SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ 1 अङ्कः कंसवधम् / दोहुरेषु निहतेषु निशाचरेषु . मायासु भायिनी खिलत्वमुपेयुषीषु / कंसस्य भृत्यनिवहैरिह यद्विपक्षपक्षक्षयक्षमतयाद्य विभावितोऽसि // 22 // (पुनर्नेपथ्ये / ) रे रे गोपालाः, दिष्टया जीविताः स्मः / परित्यजत साध्वसं भजत धीरतां नेत्रयो___हीत विनिमीलिकां भवत भूबिलेभ्यो बहिः / विदीर्णमुखकंदरोदरनिविष्टमुष्टिक्षत क्षरद्रुधिरधोरणिः स निहतो वयस्येन नः // 23 // तालजङ्घः-(ससंभ्रमम् / ) कथं सत्यमेव निहतः। (निपुणं निरूप्य।) अहह, वमति रुधिरधारां नासिकानालरन्ध्रा लठति धरणिपीठे मां खुरागः क्षुणात्ति / घुरति किमपि घोरं केसराण्युद्धनीते ___ तदणुमपि विलम्ब न क्षमन्तेऽसवोऽस्य // 24 // हन्त भोः, वज्रसाराणि हृदयानि जीवलोकस्य / यदेवमनेकधा कुलक्षयमध्यक्षयन्नपि प्राणिमि / तदस्मिन्निहते नूनमासन्नमत्याहितं महाराजस्य दैवैकचिकित्सनीयमालोकयामि / यतः / वाचा नाचरितं दृशा न कलितं कर्णेऽपि नाकर्णितं चित्तेनापि न चिन्तितं न च पुनः स्वप्नेऽपि संभावितम् / दैवज्ञैर्न निवेदितं न पिशुनैराशङ्कितं कर्हि चि __ तत्तादृग्व्यसनं विधिर्घटयति क्रूराशयः प्राणिनाम् // 25 // तदेनं वृत्तान्तमुपहरापि महामात्यस्य / (इति निष्क्रान्तः / ) इति कंसवधे द्वितीयोऽङ्कः / / 1. श्रीकृष्णे. 2. निष्फलत्वमू. 3. श्रीकृष्णेन.
SR No.004400
Book TitleKavyamala
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1988
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy