SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ / / 286 / / एतत्फलरूपेणतीर्थाऽव्युच्छित्तिमाह - ईहग्गणिविहितगण: व्यवहाराऽऽचरणमेव भव्यानाम् / दर्शयति मोक्षमार्गं दीप इव गृहस्थितं वस्तु / / 287 / / टीका - ईहग्गणिविहितगण: सूत्रार्थनिष्णातत्वादिपूर्वोक्तगुणसम्पन्नगणधरनिष्पादितश्रमणसमुदाय: स्वकीयाऽऽचरणेन स्वतुल्यत्वात् जगति भव्यानां दर्शयति बहुमानविषयीकरोति यदुत व्यवहाराऽऽचरणमेव मोक्षमार्गम्, निश्चयतस्तु तस्य जीवपरिणामात्मकत्वेन दृग्गोचरातीतत्वात्। अत्रार्थे दृष्टान्तमाह - दीप इव गृहस्थितं वस्तु। दार्टान्तिक योजना त्वेवं कर्तव्या, तथाहि - दीपस्थानीयो गुणसम्पन्नगणिनिष्पादितगणः, दीपप्रकाशस्थानीयं गणसम्बन्धिव्यवहाराचरणं गृहस्थितवस्तुस्थानीयश्च मोक्षमार्ग इति / / 287 / / अनुयोगादिना तावनिष्पादयति गुणैः स्वतुल्यान् शिष्यान् गणधरो यावदापतति क्रमेण चरमकालः। तत्र च संलेखना कार्या। किन्तु कलिकालदोषात् संयमस्यैव दुराराध्यत्वं पश्यन् ग्रन्थकार: पञ्चवस्तुकग्रन्थगतं संलेखनानिरूपणमध्याहारेणाऽतिदिश्य सामान्यत उपदिशन्नाह भरते भृतेऽतिशिथिलै : कलिकालदोषाद् गलितसुविहितविहारे / स्थेयं गुणार्थमगुणेऽप्यग्रहिलग्रहिलनृपनीत्या / / 288 / / / टीका - भरते दक्षिणार्धभरतक्षेत्रेऽस्मिन् कलिकालदोषाद् हुण्डावसर्पिणी तत्रापि पञ्चमारकभाविमात्सर्यादिदोषाद् अतिशिथिलै : लिङ्गिभिः भृते पूर्णे, तदुक्तं - कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा यं। होहिंति भरहवासे बहुमुंडा अप्पसमणा य / / 1 / / पुन: किदृशे? गलितसुविहितविहारे क्षीणप्रायसुविहितविहारे अगुणेऽपि गुणशून्येऽपि जने गुणार्थं ज्ञानादिगुणलाभार्थं स्थेयं शिथिलसदृशीभूत्वाऽऽत्मानं निर्वोढव्यम् अग्रहिलग्रहिलनृपनीत्या अनुपदमेव वक्ष्यमाणकथानकगम्यया। तथाहि पुल्विं किर पुहवीपुरीए पुण्णो नाम राया। तस्स मंती सुबुद्धी नाम। अन्नया लोगदेवो नाम नेमित्तिओ आगओ। सोय सुबुद्धिमंतिणा आगमेसिकालं पुट्ठो। तेण भणिअं-मासाणंतरं इत्थ जलहरो वरिस्सिस्सइ। तस्स जलं जो पाहिइ, सो सव्वो वि गहग्घत्थो भविस्सइ। कित्तिए वि काले गए सुवुट्ठी भविस्सइ। तज्जलपाणेण पुणो जणा सुत्थीभविस्संति। तओ मंतिणा तं राइणो विनत्तं। रन्नावि पडहग्घोसणेण.वारिसंगहत्थं जणो आइट्रो। जणेणावि तस्संगहो कओ। मासेण वुट्ठो मेहो। तं च संगहिनीरं कालेण निट्ठविलोएहिं नवोदगं चेव पाउमाढत्तं / तओ गहिलीभूआ सव्वे लोआ सामंताई अगायंति नच्चंति सिच्छाए विचिटुंते। केवलं राया अमच्चो असंगहिअंजलं न निट्ठियं ति ते चेव सुत्था चिटुंति। तओ सामंताईहिं विसरिसचिढे राय-अमच्चे निरिक्खिऊण परुप्परं मंतियं; जहा-गहिल्लो राया मंती य। एए अम्हाहितो विसरिसायारा; तओ एए अवसारिऊण अवरे अप्पतुल्लायारे रायाणं मंतिणं च ठाविस्सामो। मंती उण तेसि मंतं नाऊण राइणो विण्णवेइ। रण्णा वुत्तं - 'कहमेएंडंतो अप्पा रक्खिअव्वो? / विदं हिं नरिंदतुल्लं | महामहोपाध्याय श्री यशोविजय विरचितं 90 मार्गपरिशुद्धिप्रकरणंसटीकम्
SR No.004398
Book TitleMargparishuddhi Prakaranam
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherBhidbhanjan Parshwanath Jain Sangh
Publication Year2002
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy