________________ नित्यं सदैव संसेव्यः समुपासनीयः। न च प्रतिकूलयितव्यं वचनमेतस्य ज्ञानराशेः। एवं हि युस्माकं गृहवासत्याग: प्रव्रज्यया सफलो भवत्याज्ञाऽऽराधनयेति ।।२८१।।अपरथा अन्यथा आज्ञाकोप: तीर्थकृतामाज्ञाभङ्गः स्याद् अतिदुःखप्रदः इह परलोके च। तस्मात् कुलवधूज्ञातात् दृष्टान्तात् कार्ये निर्भर्त्सतैरपि खरण्टितैरपि भवद्भिः एतस्य गुरोः पदौ चरणौ सर्वकालं न त्याज्यौ मोक्तव्यौ, यतो गुरुकुले वसन् वाचनादितो ज्ञानस्य भागी भवति तथाऽऽराधनदर्शनादिना दर्शने चारित्रे च स्थिरतरो भवति। तदुक्तं च - णाणस्स होइ भागी, थिरयरओ दंसणे चरित्तेअ। धण्णा आवकहाए, गुरुकुलवासं न मुंचंति / / 281-282 / / किञ्च वतिनीनामप्येवं गुरुरनुशास्ति करोति दर्शयति / पूर्वोत्तमसाध्वीनां गुणान् पुनश्चन्दनाद्यानाम् / / 283 / / टीका - आस्तां साधूनां वतिनीनामपि साध्वीनामपि एवम् अनन्तरोक्तप्रकारेण गुरु: आचार्य: अनुशास्ति हितशिक्षां करोति प्रयच्छति। अनुशास्ति कुर्वन् गुरुः पुन: पूर्वात्तमसाध्वीनाम् आदर्शभूतानां चन्दनाद्यानाम् आर्याचन्दनामृगावतीप्रभृतीनां गुणान् विनयादीन् दर्शयति निरूपयतीति / / 283 / / पुन: अभिनवगणधरमाह - भणति स्वलब्धिकमपि प्राग्जाता गुरुपरीक्षितैव तव / लब्धिर्वस्त्रादीनां निर्दोषा पारतन्त्र्यवतः / / 284 / / सम्प्रति सूत्रायत्तो जातोऽसि त्वमिति वस्तुनि प्रकृते / सम्यक् प्रवर्तितव्यं बहुगुणलब्धिर्यथा भवति / / 285 / / टीका - आचार्योभणति उपदिशति आस्तां स्वलब्धिरहितं स्वलब्धिकमपि वस्त्रादिलब्धिवन्तमपि नूतनगणधरं यत् प्राग् इत: कालात् पूर्वं पारतन्त्र्यवतस्तव गुरुपारतन्त्र्याद् गुरुपरीक्षितैव अस्मदादिपरीक्षितैव जाता आसीद् निर्दोषाआधाकर्मादिदोषशुद्धा वस्त्रादीनां लब्धिः प्राप्ति:, सम्प्रति अधुना तु स्वलब्ध्यनुज्ञात: सूत्राऽयत्तो जिनागमपरतन्त्रो जातोऽसि त्वम् इति हेतो: प्रकृते प्रस्तुते वस्तुनि वस्त्रपात्रादिलब्ध्यादौ सम्यक् सूत्रात् प्रवर्तितव्यं यथा बहुगुणलब्धि: बहुगुणतरं वस्त्रादिलब्ध्यादि भवति स्यात् सूत्राज्ञापालनेन तथाविधकर्मक्षयोपशमादिति / / 284-85 / / ततः उत्थाय सपरिवार: त्रिर्गुरुमथ भावत: प्रदक्षिणयेत् / अथ पालयति स गच्छं शिष्यान्निष्पादयन्नीत्या / / 286 / / टीका - अथ आनन्तर्ये सपरिवार : अभिनवगणधर उत्थाय आसनात् त्रिः त्रीन् वारान् गुरुं मौलं भावत: उपयुक्तः सन् प्रदक्षिणयेत् प्रदक्षिणीकृत्य च सम्यग्वन्दते।अत्र प्रस्तावेतपोविधाने गुरुनिषद्यायामुपवेशने च येषां यथाऽचरणा तथा कर्तव्यम्।अथ गणानुज्ञानन्तरंस: अभिवनाचार्य: गच्छंमध्यस्थ: सन्नीत्या सिद्धान्तनीत्या पालयति तथा प्रयत्नेन चान्यान् निजगुणसदृशान् शिष्यान् निष्पादयति अनुयोगादिना ग्रहणाऽऽसेवनशिक्षाप्रदानादिति महामहोपाध्याय श्री यशोविजय विरचितं 89 मार्गपरिशुद्धिप्रकरणंसटीकम्