________________ वर्धस्व गुरुगुणैस्त्वं त्रीन् वारानुपविशेद्विधायैवम् / शेषं सामायिकवद् दिगनुज्ञार्थस्त्विहोत्सर्गः / / 277 / / टीका - वर्धस्व गुरुगुणैस्त्वम्। एवं त्रीन् वारान् विधाय उपविशति गुरुः / तदनन्तरं शेषं प्रादक्षिण्यादि सामायिकवद् द्रष्टव्यम्, नवरम् इह विधिप्रस्तावे दिगनुज्ञार्थ: उत्सर्ग: कायोत्सर्गो नियमत एव कार्य इति।।२७७ / / उपविशति गुरुसमीपे ततश्च शिष्यः परे तु वन्दन्ते / तं गुरुरप्यनुशास्ति द्वयोः प्रदत्ते प्रबोधफलाम् / / 278 / / टीका - ततश्च तदनन्तरं शिष्य उपविशति गुरुसमीपे। तत: तं नूतनगणधरं परे तु शिष्यप्रभृतयः सर्व एव वन्दन्ते। अत्रान्तरे गुरुरपि मौलाचार्योऽपि द्वयोः गच्छगणधरयोः प्रबोधफलां संवेगसाराम् अनुशास्ति हितशिक्षा प्रदत्ते प्रयच्छति यथाऽन्योऽपि कश्चित् प्रतिबुध्यत इति / / 278 / / अथ गणधरानुशास्तिमाह - उत्तमपदमुत्तमजनसेवितमिदमुत्तमोक्तमासाद्य / धन्यः पारं गत्वा लभते सुखमुत्तमं कश्चित् / / 279 / / त्वमसि च तादृग्गुणवान् भिषग्वर : प्राणिनां भवार्तानाम् / .. तन्न शरणं प्रपन्ना मोचयितव्यास्त्वया भव्याः / / 280 / / टीका - उत्तमपदं गणधरपदम् उत्तमजनसेवितम् इन्द्रभूतिगौतमादिसेवितं गणधराणामुत्तमत्वाद् उत्तमोक्तं लोकोत्तमजिनवरेन्द्रैः प्रज्ञप्तम् आसाद्य प्राप्य कश्चिद्धन्यो महासत्त्वो भवभयभीतप्राणित्राणसमर्थत्वाद्, न तु सर्व एव दुर्वाह्यत्वादस्य पदस्य, पारंगत्वा विधिनैतत्पदस्य लभते सुखमुत्तमं मोक्षसुखं, तस्यैवोत्तमत्वात् / / 279 / / त्वमपि तादृग्गुणवान् दुःखितत्राणसमर्थज्ञानादिगुणसम्पन्न: भिषग्वर :भाववैद्यो भवार्तानां भवव्याधिव्याधितानां प्राणिनाम्, तत् तस्माद् न नैव मोचयितव्याः उपेक्षितव्या: त्वया गणधरेण भव्या: एते साध्वादयः प्रव्रज्याप्रतिपत्त्या त्वां शरणं प्रपन्नाः, अपितु प्रयत्नेन स्मारणादिना भवव्याधितो मोचयितव्याः / मोचयति चाऽप्रमत्तः सन् परहितकरणे नित्योद्युक्तो यो भवसौख्याऽप्रतिबद्धः प्रतिबद्धश्च मोक्षसौख्ये। ईदृश एव त्वं पुण्यवान, तथाऽपि भणितोऽसि मयाऽनुशास्तिव्याजेन जिनाज्ञेति। एवं स्थिते समयनीत्या निजाऽवस्थासदृशं कुशलमेव भवता नित्यमेव कर्तव्यम्, नान्यदिति / / 279-280 / / अथ गच्छानुशास्तिमाह - युष्माभिरपि च नायं मोक्तव्यो भववने महागहने / सिद्धिपुरसार्थवाहः क्षणमपि नित्यं तु संसेव्यः / / 281 / / आज्ञाकोपोऽपरथा स्यादतिदुःखप्रदस्तदेतस्य / निर्भर्त्यितैरपि पदौ न त्याज्यौ कुलवधूज्ञातात् / / 282 / / टीका - आस्तां गणधरेण युष्माभिरपि गच्छवासिभि: साध्वादिभिरपि महागहने अतीवसङ्कटे भववने संसाराटव्यां अयं गुरुः सिद्धिपुरसार्थवाहः तत्राऽनपायनयनात् क्षणमपि न नैव मोक्तव्य: त्यजनीयः, अपितु महामहोपाध्याय श्री यशोविजय विरचितं 88 मार्गपरिशुद्धिप्रकरणंसटीकम्