________________ टीका - इच्छाकारेण स्वेच्छया यूयमस्माकं दिगादिकमनुजानीत इति भणति शिष्यः। अथ अत्रान्तरे गुरु: आचार्य: इच्छाम इति उक्त्वा भणित्वा तदर्थोत्सर्ग दिगाद्यनुज्ञार्थं कायोत्सर्ग कुरुते विधत्त इति / / 271 / / तत:. विधिनाऽनुज्ञानन्दिमाकर्षति संशृणोति शिष्यश्च / भणति पुनर्वन्दित्वा प्रागुक्तंभावितस्वान्तः / / 272 / / ___टीका - कायोत्सर्गे च चतुर्विंशतिस्तवं चिन्तयित्वा नमस्कारेणोत्सार्य कायोत्सर्ग पूर्वोक्तं चतुर्विंशतिस्तवं पठित्वा ततो गुरुः विधिना नमस्कारपूर्वकमेव आकर्षति पठति अनुज्ञानन्दिम् अनुज्ञार्थं नन्दिसूत्रं शिष्यश्च भावितात्मा सन् संशृणोति उपयुक्तः / अथ वन्दित्वा पुन: भावितस्वान्तः शिष्यो भणति प्रागुक्तम् इच्छाकारेणाऽस्माकं भगवन्! दिगाद्यनुजानीतेति / / 272 / / तत: साधोरस्य दिगादि क्षमाश्रमणहस्ततोऽहमनुजाने / भणति गुरुर्वन्दित्वा शिष्योऽथ भणत्यशठचित्तः / / 273 / / टीका - गुरु: आचार्यो भणति आह यत् क्षमाश्रमणहस्ततो क्षमाश्रमणानां हस्तेन, न तु स्वमनीषिकया दिगादि साधोरस्य पात्रभूतस्य अनुजानेऽहम्, मयाऽनुज्ञातमित्यर्थः। अथ आनन्तर्ये शिष्यः पुन: वन्दित्वा गुरुं भणति कथयति अशठचित्तः सन् वक्ष्यमाणमिति / / 273 / / संदिशत किं भणामि गुरुः प्रवेदयेति तथेति वन्दित्वा / कृत्वा तद्वन्दित्वा प्रवेदितं भणति युष्माकम् / / 274 / / टीका - संदिशत यूयं किं भणामि? अत्र प्रस्तावे। गुरु: भणति यद् वन्दित्वा प्रवेदयेति। तत: शिष्य: तद् गुरुवचनं तथेति प्रतिपत्तिवचनं कृत्वा उच्चारयित्वा पुन:वन्दित्वा शिष्यो भणति प्रवेदितं यूष्माकम् / / 274 / / अन्यच्च सन्दिशत च साधूनां प्रवेदयामि प्रवेदयेति गुरुः / बूते ततश्च शिष्यो वन्दित्वाऽऽकृष्य मङ्गलकम् / / 275 / / कुरुते प्रदक्षिणां सद्गुरोः स दत्त्वोपयोगवान् वासान् / देवादीनांशीर्षे तस्याथ प्रक्षिपन् भणति / / 276 / / ___टीका - संदिशत च यूयं यथा साधूनां प्रवेदयामि। ततो गुरुः मौल: बूते भणति प्रवेदयेति। ततश्च शिष्यो वन्दित्वा मङ्गलकं परमेष्ठिनमस्कारम् आकृष्य पठित्वा कुरुते प्रदक्षिणां सद्गुरोः मौलाचार्य प्रदक्षिणीकरोतीत्यर्थः / अथ स गुरुरपि आचार्योऽपि उपयोगवान् उपयुक्तः सन् सूरिमन्त्रेणाऽभिमन्त्र्य वासान् सुगन्धिचूर्णं देवादीनां जिनेश्वराणां पद्भ्यां दत्त्वा अथ तदनन्तरं तस्य शिष्यस्य शीर्षे मस्तकोपरि वासान् प्रक्षिपन् शिष्यं प्रति भणति वक्ष्यमाणमिति / / 275-276 / / | महामहोपाध्याय श्री यशोविजय विरचितं 87 मार्गपरिशुद्धिप्रकरणंसटीकम्|