________________ यथासङ्केतमिति / / 266 / / साध्वीमाश्रित्य स्वलब्धियोग्यतामाह - संयत्यपि गुणपङ्क्त्या याऽभ्यधिका भवति शेषसाध्वीभ्यः / श्रुतदीक्षादिपरिणता स्वलब्धियोग्या भवेदेषा / / 267 / / टीका - न केवलं साधुः स्वलब्धियोग्यो भवति संयत्यपि वतिन्यपि गुणपङ्क्त्या गुणगणेन शेषसाध्वीभ्यः सकाशाद् याऽभ्यधिका गुणगणेन श्रुतदीक्षादिपरिणता ज्ञानपर्यायवयोभिश्च परिणता भवति जायते एषा स्वलब्धियोग्या स्वलब्धेर्योग्या भवेद् जायतेति / / 267 / / अत्र मतान्तरं प्रदर्श्य तत्परिहरनाह - आसां न हि स्वलब्धिः सर्वं यद् गुरुपरीक्षितं प्रायः / भवति च लघुत्वमाहुः केचिदितीदं न युक्तिसहम् / / 268 / / कालाचरणाभ्यां यत् स्वलब्धिरुचितेऽलघुत्वमपि विषये / जातसमाप्तविभाषा तासामपि सूत्रतो मृग्या / / 269 / / टीका - आसां संयतीनां न हि नैव भवति जायते स्वलब्धिः यद् यस्मात् सर्वं वस्त्रपात्रादि प्रायो बाहुल्येन गुरुपरीक्षितं भवति, तथा - भवति च तासां प्रकृत्यैव लघुत्वं तुच्छत्वम् तेन लब्धिमाहात्म्यं न सहन्ते, उपलक्षणात् कलादिदोषवत्त्वमिति केचिदाहुः / इदं केषाञ्चिन्मतं न नैव युक्तिसहं युक्तिक्षमम् / / 268 / / कुत इत्याह - यद्यस्मात् तासामपि उचिते योग्ये विषये शिष्यादौ भिक्षादौ च भवत्येव स्वलब्धि: कालाचरणाभ्यां कालेन परिणते वयसि तथाऽचरणया सम्प्रदायाच्चाऽऽचरितमेतत् तासामपि स्वलब्धिरिति। तथा - भवति च अलघुत्वमपि अकारप्रश्लेषात्, तथापात्रे लघुत्वादिदोषवत्त्वमपि न भवतीति भावः। अथ संयतीनां जातसमाप्तकल्पनिर्देशायाऽतिदिशति - तासामपि संयतीनामपि अजाताऽसमाप्तकल्पे बहुतरदोषाद् जातसमाप्तविभाषा जातकल्पसमाप्तकल्पविषयकनिरूपणा सूत्रतो व्यवहारसूत्रादितो मृग्या अन्वेषणीया। सा च जघन्यतोऽपि ऋतुबद्धे काले संयतीनां सप्तक: समाप्तकल्प: वर्षाकाले नवकः। पञ्चवस्तकगाथा 1335 वृत्तौ "व्रतवतीनां सत्रानुसारत: खल्वधिकादि - द्विगुणादिरूपा'' तथाऽनुवादे पूज्याचार्यश्रीराजशेखरसूरिभिः संख्यया ऋतुबद्ध काले दश वर्षाकाले च चतुर्दशेत्युक्तं तत्तु न सम्यग्ज्ञायते। जाताऽजातविभाषा च पिण्डैषणादिविषयकगीतार्थत्वप्रयुक्ताऽवगन्तव्येति / / 268-269 / / अथाऽनुज्ञाविधिमाह - अत्रानुज्ञार्थविधौ शिष्यं संस्थाप्य वामपार्श्वे तम् / देवान् वन्देत गुरुर्वन्दित्वा भणति शिष्योऽथ / / 270 / / टीका - अत्र अनुज्ञार्थविधौ गुरु: आचार्य: तं शिष्यम् गणाऽनुज्ञायोग्यं वामपार्श्वे स्वकीये संस्थाप्य कृत्वा सशिष्यो देवान् वन्देत। अथ तदनन्तरं शिष्यो गुरुं वन्दित्वा भणति प्रार्थयति वक्ष्यमाणमिति / / 270 / / अनुजानीत दिगादिकमिच्छाकारेण यूयमस्माकम् / इच्छाम इति तदर्थोत्सर्ग कुरुते गुरुरथोक्त्वा / / 271 / / महामहोपाध्याय श्री यशोविजय विरचितं 86 मार्गपरिशुद्धिप्रकरणंसटीकम्