________________ अयमपि सार्धं गुरुणा पृथगथ गुरुदत्तयोग्यपरिवारः / विहरति तदभावे वा विधिनैव समाप्तकल्पेन / / 263 / / * टीका - आस्तामन्यः साधुः अयमपि स्वलब्धिमानपि सार्धं समं गुरुणा आचार्येण विहरति। अथ विकल्पे पृथग् गुरोस्तहि गुरुदत्तयोग्यपरिवार H सन् विहरति, तदभावे गुरुदत्तपरिवाराऽभावे विधिनैव समाप्तकल्पेन वक्ष्यमाणलक्षणेन विहरतीति / / 263 / / समाप्तकल्पाभिधित्सयाऽऽह - जातोऽजातश्च मतो गीतार्थेतरकृतो द्विधा कल्पः। पञ्चकतदूनभावात् समाप्ततव्यत्ययविभिन्नः / / 264 / / टीका - जातो गीतार्थयुक्तो जातकल्पः, व्यक्ततया निष्पत्तेः, अजातश्च अगीतार्थयुक्तश्च भवेदजात: अव्यक्तत्वेनाऽजातत्वात्। एवं गीतार्थेतरकृतो गीतार्थाऽगीतार्थविहित: द्विधा द्विप्रकार: कल्प: व्यवस्थाविशेष: मत : सम्मतस्तीर्थकृद्गणधरैः / एकैकोऽपि पञ्चकतदूनभावात् समाप्ततद्व्यत्ययभिन्न : जघन्येन पञ्चकं साधूनां समाप्तकल्पः, तदूनभावाच्च तन्न्यूनः सन् भवत्यसमाप्तकल्प इति भावः / / 264 / / अजाते कल्पेऽसमाप्तकल्पे च को दोष इत्याह - ऋतुबद्धे वर्षासु च सप्त समाप्तस्तदूनकस्त्वितर: “असमाप्ताऽजातानां भवति हि नाभाव्यमोघेन / / 265 / / ___टीका - ऋतुबद्धे कालेऽनन्तरोक्तकल्पव्यवस्था, वर्षासु च प्रावृषि पुनर्जघन्यतः सप्त साधवः समाप्त: समाप्तकल्पः, तदूनकस्तु तन्न्यूनस्तु इतर: असमाप्तकल्प: / तत्फलमाह - असमाप्ताऽजातानां साधूनाम्ओघेन सामान्येन न हि नैव भवति जायते आभाव्यं तत्तत्क्षेत्रगतशिष्यवस्त्रपात्रादिविषयं किञ्चित्। तदाह - जाओ अअजाओ अ, दुविहो कप्पो अहोइ विण्णेओ। इक्किक्को पुण दुविहो, समत्तकप्पो अअसमत्तो / / 27 / / गीयत्थ जायकप्पो, अग्गीओ खलु भवे अजाओ अ पणगसमत्तकप्पो तदूणगो होइ असमत्तो / / 28 / / उउबद्धे, वासासु य सत्तसमत्तो तदूणगो इयरो। असमत्ताजायाणं आहे ण होइ आहव्वम् / / 29 / / (पञ्चाशके 11 तमे) / / 265 / / अन्योन्यसङ्गतानामपि भवत्याभाव्यमित्याह - भवति समाप्ते कल्पे कृतेऽपि चान्योन्यसङ्गतानां हि / गीतार्थसमेतानामुभयेषां तद् यथासमयम् / / 266 / / टीका - भवति जायते तद् आभाव्यं कृते समाप्तकल्पे अन्योन्यसङ्गतानामपि विजातीयकुलाद्यपेक्षया परस्परमिलितानामपि गीतार्थसमेतानां हि गीतार्थयुक्तानामेव उभयेषां गीतार्थाऽगीतार्थसाधूनामाभाव्यं भवति यथासमयं महामहोपाध्याय श्री यशोविजय विरचितं 85 मार्गपरिशुद्धिप्रकरणंसटीकम् |