________________ हवई'। मंतिणा भणिअं - ‘महाराय! अगहिलेहिं पि अम्हेहिं गहिल्लीहोऊण छायव्वं, न अनहा मुक्खो'। तओ कित्तिमगहिलीहाउं ते रायामच्चा तेसिं मज्झे नियसंपयं रक्खंता चिटुंति। तओ ते सामंताई तुट्ठा। अहो! रायामच्चा वि अम्ह सरिसा संजाय त्ति उवाएण तेण तेहिं अप्पा रक्खिओ। तओ कालंतरेण सुहवुट्ठी जाया। नवोदगे पीए सव्वे लोगा पगइमावन्ना सुत्था संवुत्ता। एवं दूसमकाले गीयत्था कुलिंगीहिं सह सरिसीहोऊण वटुंता अप्पणो समयं भाविणं पडिवालिंता अप्पाणं निव्वाहइस्संति अत्रायमुपनयः, राजस्थानीय आत्मा, शास्त्रानुसारिणी बुद्धिश्च मन्त्रिस्थानीया, तदेकचित्तेनात्मना कुग्रहरूपम् उन्मादकजलं परित्यज्यात्मरक्षणार्थ यावच्छुभकालं भावानुपघातेन तद्वदनुवर्तनाऽपि कर्तव्येति / / 288 / / एवं गणादिकार्ये लिङ्गावशेषमात्रेऽपि वन्दनदानायाह - अगुणादपि गुणवृद्धिर्यदि भवति द्रव्यवन्दनादिभ्यः। तदवकरादपि रत्नोपलम्भ इत्याहुराचार्याः / / 289 / / टीका - आस्तां गुणवत: सकाशाद् कारणे समुत्पन्ने अगुणादपि केवलद्रव्यलिङ्गयुक्तादपि गुणवृद्धिः कुलगणाद्यनुग्रहलक्षणा सूत्रार्थग्रहणरूपा वा यदि चेद्भवति जायते द्रव्यवन्दनादिभ्यः ज्ञाताऽगुणे भाववन्दनाद्यभावाद् आदिपदात् सहवासादिग्रहः, तत् तर्हि सा गुणवृद्धिः,आस्तां रत्नाकराद् अवकरादपि कचवरराशेरपि रत्नोपलम्भः रत्नप्राप्तिः, तत्तुल्या इति एवम् आहुः ब्रुवन्ति आचार्या: सूरयः। अथ द्रव्यवन्दनमपि न कुर्वन्ति ततो महादोषो भवति, यथा अजापालकवाचकमवन्दनामाना अगीतार्था शिष्या दोषं प्राप्तवन्तः / उक्तं च कल्पभाष्ये - उप्पन्नकारणम्मि, कितिकम्मं जो न कुज्ज दुविहं पि / पासत्थादीयाणं, उग्घाया तस्स चत्तारि / / 4540 / / / / 289 / / ___ अथ भाववन्दनविषयमाह - हीनेऽपि गुणांशे तु प्रायो भावेन वन्दनं न्याय्यम् / इत्थं मार्गाभ्युदयः कारणमिह कल्पभाष्योक्तम् / / 290 / / टीका - आस्तां गुणाधिके हीनेऽपि गुणांशे जघन्यसंयमस्थानेषु स्थितेऽपि तुशब्दो विशेषद्योतने प्रायो बाहुल्येन गच्छादिप्रयोजने समुपस्थिते भावेन जिनप्रज्ञप्तेन वन्दनम् उपलक्षणादभ्युत्थानादि न्याय्यम् युक्तियुक्तम्। इत्थम् एवम् इह हीनेऽपि भावेन वन्दनदाने कारणं हेतु: मार्गाभ्युदयः गच्छादिरक्षालक्षणो यदि वाऽभ्युत्थानादिरूपं विनयं धर्मस्य मूलमिति चारित्रे पूर्वस्थितं पश्चास्थितेन वन्द्यमानं दृष्ट्वाऽभिनवधार्मिकाणामपि वन्दनादौ प्रवृत्ति: स्यात्ततश्च क्लिष्टकर्मक्षयात् सम्यक्त्वादिलाभः, स एव वन्दनादौ कारणं हेतु: कल्पभाष्योक्तं ज्ञेयम्। तदुक्तं च बृहत् कल्पभाष्ये दंसण नाण चरित्तं, तव विनयं जत्थ जत्तियं जाणे / जिणपन्नत्तं भत्तीइ पूयए तं तहिं भावं / / 4553 / / | महामहोपाध्याय श्री यशोविजय विरचितं 91 मार्गपरिशुद्धिप्रकरणंसटीकम् |