________________ एतद्वृत्तिः - दर्शनं च - निशङ्कितादिगुणोपेतं सम्यक्त्वं ज्ञानं च - आचारादिश्रुतं चारित्रं च मूलोत्तरगुणानुपालनात्मकं दर्शन-ज्ञान-चारित्रम्, द्वन्द्वैकवद्भावः / एवं तपश्च - अनशनादि विनयश्च अभ्युत्थानादि तपो-विनयम्। एतद्दर्शनादि 'यत्र' पार्श्वस्थादौ पुरुषे यावद्' यत्परिमाणं स्वल्पं बहु वा जानीयात् तत्र तमेव भावं जिनप्रज्ञप्तं स्वचेतसि व्यवस्थाप्य तावत्यैव भक्त्या' कृतिकर्मादिलक्षणया पूजयेत्।।२९० / / अथ केचित् सिंहतया निष्क्रम्याऽपि क्लिष्टकर्मवशात् पार्श्वस्थादिभावं प्रतिपद्यन्ते तेषां प्रति समुपदिशन्नाह - निरुपक्रमकर्मवशान्नित्यं मार्गकदत्तदृष्टिरपि / चरणकरणे त्वशुद्धे शुद्धं मार्ग प्ररूपयतु / / 291 / / टीका - मार्गेकदत्तदृष्टिरपि संयमैकलक्ष्योऽपि नन्दिषेणवत् निरुपक्रमकर्मवशात् निकाचिताऽशुभोदयात् तु शब्द: पुनरर्थ: अशुद्ध चरणकरणे स्थित: सन् कदा संयमे समुद्यतो भवेयमिति भावयन् नित्यं सदाकालं शुद्धं मार्गं जिनोपज्ञमाचारगोचरं प्ररूपयतु उपदिशतु। सदुपदेश दानमेवाऽस्य मोक्षोपाय इति भुवनगुरूणामाज्ञा। शिथिलो हि प्राय: सुखलंपट: सन् न शक्नोति चारित्रविषये कर्तुमुद्यमम्। तथा चार्षः -- अवि नाम चक्कवट्टी, चइज्ज सव्वं पि चक्कवट्टिसुहं / न य ओसन्नविहारी, दुहिओ ओसन्नयं चयइ / / 255 / / (उपदेशमाला) आस्तां संयमे शिथिल:, शुद्धमार्गप्ररूपणाऽवसरेऽपि स वक्तुं ग्लायति। तथा चागमः - दुव्वसुमुणी अणाणाए, तुच्छए गिलाइ वत्तए. . . ।।सूत्र १०१.आचाराङ्गः 1-2-6 / एवं स्थिते शुद्धमार्गप्ररूपणा हि तस्याऽऽराधना। अत्रार्थे - नियट्टमाणा वेगेआयरगोयरमाइक्खंति, नाणभट्ठा दंसणलूसिणो ।।सू. १०७।।आचाराङ्गः 1-6-4 / / अस्याक्षरगमनिका - संयमा लिङ्गाद्वा निवर्तमाना अनिवर्तमाना वा एके आचारगोचरमाचक्षते, न पुनर्यथा ज्ञानभ्रष्टा दर्शनलूषिणः सम्यग्दर्शनविध्वंसिन: स्वतो विनष्टाअपरानपि शङ्कोत्पादनेन सन्मार्गाच्च्यावयन्तीति / / 187 / / 291 / / अनन्तरोक्तशुद्धमार्गप्ररूपणाया: फलं निरूपयन् क्रियामात्रमग्नमतीनुपदिशति - दर्शनशास्त्राभ्यासाद्धीनोऽपि पथप्रभावनोद्युक्तः / यल्लभते फलमतुलं न तत् क्रियामात्रमग्नमतिः / / 292 / / टीका - हीनोऽपि चरणकरणे दर्शनशास्त्राभ्यासात् सम्मत्यादिशास्त्रपरिशीलनात् पथप्रभावनोद्युक्तः श्रीजिनशासनोन्नतिकरणबद्धकक्ष: परोपकारद्वारेणाऽधिकगुणभावाचल्लभते प्राप्नोति फलं विपुलपुण्यलक्षणं नि:स्पृहत्वेन चाऽऽत्मविशुद्धिलक्षणम् अतुलं निरुपमं तद् अनन्तरोक्तं विपुलं फलं क्रियामात्रमग्नमति: एकान्तक्रियारुचि: न नैव लभत इति / / 292 / / अत्र हेतुमाह - विफलक्रियाभिमानादज्ञानाच्च चरणशुद्ध्यभावेन / इदमित्थमेव गदितं यत् सम्मत्यां महामतिना / / 293 / / टीका - अज्ञानहेतुकमूढमतित्वेन विफलक्रियाभिमानाद् व्यर्थक्रियामदाद् अज्ञानाच्च क्रियाहेतुस्वरूपाऽ महामहोपाध्याय श्री यशोविजय विरचितं 92 मार्गपरिशुद्धिप्रकरणंसटीकम्