________________ नुबन्धबोधाभावाच्च चरणशुद्ध्यभावेन हेतुना न लभते विपुलं फलं यत् शास्त्राभ्यासात् पथप्रभावनोद्युक्तो लभते। अत्र ग्रन्थकारः स्वमनीषापरिहारार्थमाह - इदम् अनन्तरोक्तम् इत्थमेव एवमेवाऽवितथमेवेत्यर्थः, यद् यस्मात् सम्मत्यां सम्मतितर्कप्रकरणे गदितम् उक्तं वक्ष्यमाणं महामतिना श्रुतकेवलिना श्रीसिद्धसेनदिवाकरेणेति / / 293 / / गदितमेवाह चरणकरणप्पहाणा ससमय-परसमयमुक्कवावारा / चरणकरणस्स सारं णिच्छयसुद्धं ण याणंति / / 294 / / टीका - चरणकरणप्रधाना: चरणं श्रमणधर्म: वयसमणधम्म संजम वेयावच्चं च बंभगुत्तीओ। णाणाइतियं तव-कोहणिग्गहाइ चरणमेयं / / करणं पिण्डविशुद्ध्यादिः पिंडविसोही समिई भावण पडिमाइ इंदियनिरोहो / पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु / / एतच्चरणकरणयो: प्रधानास्तदनुष्ठानतत्परा: स्वसमयपरसमयमुक्तव्यापारा:अयं स्वसमय: अनेकान्तात्मकवस्तुप्ररूपणात्अयं च परसमय: केवलनयाऽभिप्रायप्रतिपादनात् इत्येतस्मिन्परिज्ञानेनादृताअनेकान्तात्मकवस्तुतत्त्वं यथावत्अनवबुध्यमाना: तदितरव्यवच्छेदेन इति यावत्। चरणकरणयोः सारं स्वजन्यफलोत्कर्षाऽङ्गम्, निश्चयशुद्धं परमार्थदृष्ट्यावदातं सम्यग्दर्शनं तेन जानन्ति तदावरणकर्मदोषात्, न हि यथावस्थितवस्तुतत्त्वावबोधमन्तरेण तद्रुचिः, न चस्वसमयपरसमय तात्पर्यार्थानवगमे तदवबोध: संभवी।। न च सामायिकमात्रपदविद्माषतुषादिनाऽत्र व्यभिचार: शङ्कनीयः, यथोदितचरणकरणप्ररूपकासेवकसुविहितगीतार्थगुरूपारतन्त्र्येण स्वपरसमयमुक्तव्यापारत्वाभावादिति / / 294 / / अनन्तरोक्तसामायिकपदस्य प्रवृत्तिर्ज्ञानादि रत्नत्रयप्राप्तौ सत्यां भवतीति यदि वाऽनन्तरोक्तसम्यग्दर्शनस्य सम्यग्ज्ञानाऽभेदात् सम्यग्ज्ञानस्य च सम्यक्चारित्रफलत्वादिति ज्ञानादिरत्नत्रयस्य निश्चयशुद्धं स्वरूपमाह - पर्यायद्रव्यगुणैरात्मज्ञानमिह कथ्यते बोधः / तत्र श्रद्धा दर्शनमभ्युत्थानं च चारित्रम् / / 295 / / टीका - पर्यायद्रव्यगुणैः पर्यायाश्च नृनारकादिभावाः, द्रव्यं च द्रवति गच्छति तान् तान् पर्यायानिति त्रिकालभावी नित्याऽऽत्माऽमूर्त उपयोगलक्षण: प्रत्यग्रज्योतिर्मय: गुणाश्च ज्ञानदर्शनादय: पर्यायद्रव्यगुणास्तै: बोध: अजीवादितत्त्वेभ्य: अन्वयव्यतिरेकाभ्यामात्मतत्त्वविनिश्चयः ज्ञानं सम्यग्ज्ञानं कथ्यते। तत्र उक्तस्वरूपे बोधेशुद्धात्मतत्त्वे वाऽनुभवलक्षणा श्रद्धा तीव्ररुचिः दर्शनं सम्यग्दर्शनमुच्यते।अभ्युत्थानं श्रद्धासमन्वितबोधसम्पन्नता, तत्फलभूता स्वभावरमणता, तदर्थः सम्यक् प्रयत्नो वा चारित्रं सम्यक्चारित्रं कथ्यत इति / / 295 / / अनन्तरोक्तरत्नत्रयप्राप्ते: समभावात् सामायिकपदप्रवृत्तिमाह - महामहोपाध्याय श्री यशोविजय विरचितं 93 मार्गपरिशुद्धिप्रकरणंसटीकम्