________________ इत्थं रत्नत्रयतां प्राप्तेऽस्मिन्निर्विकल्पभावनिधौ / समभावात् सामायिकपदप्रवृत्तिः सुपरिशुद्धा / / 296 / / टीका - इत्थम् अनन्तरोक्ताऽऽत्मस्वभावभूतां तथ्यां रत्नत्रयतां सम्यग्ज्ञानदर्शनचारित्रैरेक्यम् अस्मिन् आत्मनि प्राप्ते सति, यदि वा ग्रन्थकारहृदयस्थत्वेन प्रत्यक्षत्वात् अस्मिन् नैसर्पप्रभृतिद्रव्यनवनिधिव्यपेक्षया बहिरर्थसङ्कल्पसमुत्थानपरिहारेण निर्विकल्पभावनिधौ निर्विकल्पतया चित्तसमाधौ प्राप्ते सति, समभावात् सर्वभावेषु साम्यात् सुपरिशुद्धा सर्वोपाधिशुद्धा सामायिकपदप्रवृत्तिः सामायिकशब्दार्थबोधनशक्ति: जिनवरेन्द्रैरुक्ता। तदुक्तं श्रीमलयगिरिसूरिभि: आवश्यकवृत्तौ-समानि ज्ञानदर्शनचारित्राणि तेष्वयनं गमनं समायः स एव सामायिकम्। यदि वा सर्वजीवेषु मैत्री साम, साम्न आय: लाभ: सामायः स एव सामायिकम् / / 296 / / ननु रत्नत्रयवतां चारित्रिणामपि क्वचिद् रागद्वेषादिलक्षणा: परपरिणामा दृश्यन्ते तत्कथमित्याशङ्क्याह - पवनादिव कल्लोलाः परपरिणामा: विकल्पतः पुंसः / स्थिरनिर्विकल्पवृत्तिः स्तिमितोदधिसन्निभे त्वस्मिन् / / 297 / / टीका - लवणसमुद्रे पवनादिव पातालकलशगतसम्मूर्छितमरुतो यथा कल्लोला: ऊर्मयः प्रसरं यान्ति तथैव पुंस: आत्मन: विकल्पतः कर्मोदयजन्यबहिरर्थसङ्कल्पतः परपरिणामाः रागद्वेषादिभावा लब्धसत्ताका भवन्ति, स्तिमितोदधिसन्निभे प्रशान्तसमुद्रतुल्ये तु पुन: अस्मिन् आत्मनि, यदि वा सामायिकपदप्रवृत्तिनिबन्धने निर्विकल्पभावनिधौ प्राप्ते सति पुंस: स्थिरनिर्विकल्पवृत्तिः निर्वाताऽपवरककोणगतदीपशिखातुल्यस्थिरा चेतोवृत्ति: संजायत इति / / 297 / / स्तिमितोदधिसन्निभे जीवस्वभावे सत्यपि यथाऽस्य जीवस्य संसारस्तथाऽऽह - आगन्तुकाद्विकल्पानिमित्ततः प्रसरतां स्वभावेन / कर्तृत्वाद्यभिमानात् कर्माणूनां स संसरति / / 298 / / टीका - कर्मोदयहेतुना आगन्तुकाद् न तु स्वाभाविका विकल्पाद् बहिरर्थसङ्कल्पसमुत्थानाद् अनादिभ्रमात्मकाऽज्ञानेनैव कर्ताहं भोक्ताहमिति कर्तृत्वाद्यभिमानात्, स्वभावेन विस्रसापरिणामेन लोकाकाशे प्रसरतां प्रसरं बिभ्रतां कर्माणूनाम् आत्मना सह क्षीरनीरन्यायेन बन्धभावमागतानां निमित्तत: उदयप्राप्तलक्षणत: स संसारिजीव: चतुर्गतिकसंसारे संसरति बम्भ्रमतीति / / 298 / / ननु पुष्करपलाशकल्पस्य निश्चयशुद्धस्यात्मनः कथं कर्मबन्ध इत्याशङ्कयाह - स्नेहाऽऽलिङ्गितवपुषो रेणुभिराश्लिष्यते यथा गात्रम् / रागद्वेषाऽस्तमते: कर्मस्कन्धैस्तथा श्लेषः / / 299 / / टीका - यथा येन प्रकारेण स्नेहाऽऽलिङ्गितवपुष: तैलाऽभ्यक्तशरीरस्य गात्रम् अवयवो रेणुभिः रजोभिः आश्लिष्यते तथा तद्वद् रागद्वेषाऽस्तमतेः रागद्वेषाभ्यां क्षीणविवेकस्याऽऽत्मनः कर्मस्कन्धैः ज्ञानावरणीयादिकर्मपुद्गलैः श्लेष: संगमो बन्धलक्षण इति / / 299 / / तत:किमित्याह - महामहोपाध्याय श्री यशोविजय विरचितं 94 मार्गपरिशुद्धिप्रकरणंसटीकम्