________________ पश्यन्नाटकमात्मा तदनादिद्रव्यभावकर्मकृतम् / अन्तर्दशा स्वभावान्न चलति भगवानुदासीनः / / 300 // . टीका- यस्माद्रागद्वेषाऽस्तमतेः कर्मस्कन्धैः श्लेष: तत् तस्माद्भगवान् सत्केवलज्ञानाद्यैश्वर्यवान् उदासीन: रागद्वेषयोर्मध्यस्थो हाना दानपरिणामरहित इत्यर्थः, आत्मा अन्तरात्मदशावान् अनादिद्रव्यभावकर्मकृतं प्रवाहतोऽनादिकर्मपरमाणुलक्षणद्रव्यकर्मतत्कारण रागद्वेषात्मकभावकर्मविहितं नाटकं दानहरणादिसंसारप्रेक्षणकं अन्तर्दशा जाग्र विवेकदृष्ट्या साक्षिभावेन पश्यन् वीक्षमाणः स्वभावात् चैतन्यलक्षणाद्न नैव चलति सुखदुःखभाग् रागद्वेषवशगोवा न भवतीत्यर्थः / / 300 ।।अनन्तरोक्तायाअन्तर्दृशो माहात्म्यमाह अस्यां निमीलितायामपि च व्यवहारथीनिमीलायाम् / अयमीदृगेव न मृगो भवति मृगपतिः प्रसुप्तोऽपि // 301 / / टीका-आस्तामुन्मीलितायां निमीलितायामपि निमिषितायामपिअस्याम् अन्तशि, व्यवहारधीनिमीलायां चव्यवहारबुब्युन्मेषेऽपि व्यवहारतः प्रवृत्तोऽपीत्यर्थः, अयम् अन्तरात्मदशावान् ईदृगेव चेतोवृत्त्याउदासीन एव स्वभावतोऽचलनाद्रोराभिनयप्रवृत्तःअच्युतकल्पादागतदेव इवात्रार्थे ग्रन्थकारो दृष्टान्तमाह-आस्तां जागरूकः, प्रसुप्तोऽपि निद्राणोऽपि मृगपतिः केशरीन नैव भवति जायते मृगो हरिण इति / / 301 // यतः * कुरुते नहि परभावान कारयत्यपि च नानुजानीते। परिणामानां स्वेषां स भवति कर्ता च भोक्ता च / / 302 / / टीका - हि यस्माद् निश्चयशुद्धत्मा परभावान् पौगलिकभावान् न नैव कुरुते स्वयं न नैव कारयति परैः, अपि च समुच्चयेन नैव अनुजानीते अनुमन्यते। अत्र युक्तिलेशः, तथाहि - यदि स्वभावानां परभावानां चात्मनः कर्तृत्वमभ्युपगम्यतेतर्हि एकस्मिन्त्रात्मद्रव्ये क्रियाद्वयापत्तिः प्रसज्यते।साचऋजूसूत्रनयेन नाऽभिमता। अत एव स आत्मा स्वेषां शुभाशुभानां परिणामानां दानहरणादिलक्षणानामध्यवसायानां कर्ता च विधाता च भोक्ता च तत्तत्परिणामफलाउनुभविता च भवति जायते। तदुक्तं ग्रन्थकारेणैव'अजूसत्रनयस्तत्र कर्तृतां तस्यमन्यते। स्वयं परिणमत्यात्मायं यंभावं यदा यदा / / 17 / / (अध्यात्मसारगतात्मनिश्चयाधिकारे।) // 302 // . एवं स्थितेऽपिये परभावकर्तुचेतोवाक्कायाभेदमध्यवस्यन्ति तानिरूपयन्नाह - परभावकर्तृचेतोवाक्कायाऽभेदमध्यवस्यन्तः / दधते पराङ्मुखत्वं स्वभावलाभप्रथाभूमेः / / 303 / / टीका - परभावकर्तृचेतोवाक्कायाऽभेदं परभावानां यत् कर्तृ चेतोवाक्कायलक्षणं योगत्रयं तेन सह अज्ञानाद् अभेदं तादात्म्यम् अध्यवस्यन्तः कल्पयन्तः स्वभावलाभप्रथाभूमेः स्वभावलाभो मोक्षस्तस्य प्रथा पद्धतिर्माग इति यावत् तस्या भूमि: आदिहेतुः तस्याः पराङ्मुखत्वं पृष्ठं दधते ददत इति / / 303 / / अथ महामहोपाध्याय श्री यशोविजयविरचितं 15 मार्गपिरिशुद्धिप्रकरणंसटीकम्