________________ स्वभावभूमिमाह - न हि देहो न मनो न चापि वाणी न कारणं तेषाम् / ज्ञायकभावस्त्वहमिति बोधो भूमिः स्वभावस्य / / 304 / / टीका - न हि नैवाहं भिन्नस्वभावत्वाद्देहो वपुः, न मनो मानसं, न वाणी भाषा, देहादावहङ्कासदिविधानस्याऽज्ञानविजृम्भितत्वात् न च कारणं हेतुः तेषां मनोवाक्कायानाम् अपितु ज्ञायकभावः ज्ञातृसत्ता उपलक्षणानित्यो ज्ञानानन्दमय: सिद्धस्वरूपी अहम्आत्मादिपदवाच्यः इति एवंप्रकारो बोधः संविभूमि: आद्यहेतुः स्वभावस्य ज्ञानदर्शनचारित्राऽन्वयिशुद्धाऽऽत्मभावस्य मोक्षस्येत्यर्थः / / 304 / / इत्थं मननस्वरूपं हितोपदिशनाह पुरुष! त्वमेव मित्रं तव किं बहिरीहसे परं मित्रम् / उच्चालयितारं त्वं दूरालयिकं च जानीहि / / 305 / / टीका - पुरुष आत्मन् त्वमेव नान्यः कश्चिदित्यर्थः, तव मित्रं सुहृद् हितकारित्वात्, किम् इति बहिः परम् अन्यं मित्रम् उक्तस्वरूपम् ईहसे इच्छसि? यो हि निर्वाणनिर्वर्तकव्रतमाचरति स आत्मनो मित्रम्। स चैवम्भूतः कुतोऽवगन्तव्य: किंफलश्चेत्याह - त्वं यं जानीहि अवबुध्यस्व उच्चालयितारं कर्मणां विषयसङ्गानां चाऽपनेतारं तंदूरालयिकंच मोक्षमार्गव्यवस्थितंच जानीहि, एवमेव यं जानीहि दूरालयिकं तं च जानीहि उच्चालयितारम्। तथा चागम: - तुममेव तुम मित्तं, किं बहिया मित्तमिच्छसि? सू.११८ तथा - जंजाणिज्जा उच्चालइयं तं जाणिज्जा दूरालइयं, जंजाणिज्जा दूरालइयं तंजाणिज्जा उच्चालइयं, पुरिसा! अत्ताणमेवं अभिणिगिज्झ एवं दुक्खा पमुच्चसि। सूत्र.११९ ।आचाराङ्गप्रथमश्रुतस्कन्धतृतीयाऽध्ययनतृतीयोद्देशः / अक्षरगमनिका त्वेवम् - यं जानीयात् कर्मणां विषयसङ्गानां च उच्चालयितारम् - अपनेतारं तं जानीयात् दूरालयिकं - मोक्षमार्गव्यवस्थितम्, यं जानीयात् दूरालयिकं तंजानीयात् उच्चालयितारम्। पुरुष! धर्मध्यानाद् बहिर्विषयाभिष्वङ्गाय नि:सरन्तम् आत्मानमेवम् अभिनिगृह्य-अवरुध्यैव एवम् अवधारणे दुःखात् प्रमोक्ष्यसि / / 305 / / ननु किमित्येवमुपदिश्यत इत्याशङ्कयाह - इत्यादिभिरुपदेशैः सूत्रोक्तैर्मोक्षमार्गमुख्यत्वम्। मननात्मकस्य सिध्यत्यनात्मभेदप्रबोधस्य / / 306 / / टीका - इत्यादिभिः अनन्तरोक्तगाथाद्वयोपदिष्टप्रभृतिभिः सूत्रोक्तैः श्रीजिनागमोक्तैः उपदेशैः अनुशास्तिलक्षणैः,आदिपदात् “सया सीलं सुपेहाए सुणिया भवे अकामे अझंझे इमेण चेव जुज्झाहि किं ते जुज्झेण बज्झओ?" आचाराङ्ग 1-5-3-154 इत्यादिसङ्ग्रहः, किमित्याह-मननात्मकस्य चिन्तनात्मकस्य अनात्मभेदप्रबोधस्य अनात्मनोधनस्वजनादेभिन्नोऽहमिति प्रबोधो भेदप्रबोधो भेदज्ञानं यस्य स तथा तस्य पुंस: मोक्षमार्गमुख्यत्वं ज्ञानादिरत्नत्रयप्राधान्यलक्षणं मोक्षमार्गाभिमुखत्वमाविर्भवतीति / / 306 / / एतत्फलमाह - परमात्माऽभिन्नः स्यात् परभेदज्ञानपरिणतो जीवः / वैषम्यनिर्मुक्तस्वरूपमात्रप्रकाशेन / / 307 / / महामहोपाध्याय श्री यशोविजय विरचितं 96 मार्गपरिशुद्धिप्रकरणंसटीकम्