________________ टीका - परभेदज्ञानपरिणत: परतआत्मव्यतिरिक्तसर्वभावतो भिन्नोहमिति परभेदज्ञानेन सात्मीभावाऽऽपन्न: परभेदज्ञानपरिणतिमानित्यर्थः, एवम्भूतो जीव: भवस्थ: वैषम्यनिर्मुक्तस्वरूपमात्रप्रकाशेन - वैषम्यं सुख्यस्मि दुःख्यस्मिनास्मीत्यादिलक्षणंतस्मा निर्मुक्तस्य परमेच समाधौ निवेशितात्मनोध्यानजस्पर्शनालक्षणया परमात्मसमापत्त्या परमात्मतुल्याऽऽत्मस्वरूपमात्रप्रकाशेन परमात्मभावानुभवनात् परमात्माऽभिन्न: परमात्मसकाशाज्जीवात्माऽभिन्न: स्याद् भवेदिति / / 307 / / अनन्तरोक्तमेवार्थमुपमाद्वारेणाह - क्षणमपि कर्मविलासो परमे परमेष्ठिभावलग्नमतिः / घनसमयेऽपि रविरिव प्रकाशते मेघनिर्मुक्तः / / 308 / / टीका - छाास्थ्येऽपि क्षणमात्रमपि मुहूर्तमात्रमपि वैषम्यनिर्मुक्तो कर्मविलासः कर्मणां ज्ञानावरणीयादीनां क्षयोपशमलक्षणो विलासो लिला यस्य सजीव: परमे चिदाकाशे परमेष्ठिभावलग्नमति: परमात्मभावाऽऽसक्तचित्त: परमात्मतुल्यनिजस्वरूपप्रकाशेन प्रकाशते द्योतते, क इव? आकाशे घनसमयेऽपि मेघनिर्मुक्तो रविरिव / / 208 / / एवम्भूतमेव पुमांसं विशेषेण निरूपयन्नाह - आत्मस्वभावदर्शी स्वैरं कर्मोपनीतफलभुगपि / . लिप्यते न पापभरैरवशिष्टमुपप्लवं पश्यन् / / 309 / / टीका - आत्मस्वभावदर्शी शुद्धात्मस्वभावं संवेदयन् अवशिष्टम् आत्मव्यतिरिक्तं सर्वं विश्वम् उपप्लवम् उपद्रवप्रायं पश्यन् विवेकचक्षुषाऽवलोकयन्आस्तां शालिभद्र इव भाग्योपनीतफलभोगत्यागी स्वैरं स्वच्छन्दतया कर्मोपनीतफलभुगपि निरुपक्रमशुभकर्मोपढौकितकामिन्यादिफलभोगान् भुञ्जानोऽपि भरतादिवत्प्रतिबन्धाऽभावाद् न नैव लिप्यते श्लिष्यते शुष्कमृत्तिकागोलकवत् पापभरैः भोगनिमित्तकै: कमरेणुराशिभिरिति / / 309 / / अनन्तरोक्तमेव प्रकारान्तरेणाह - मायोदकं यथावत् पश्यन् यात्येव तेन मार्गेण / पश्यन्नलीकरूपान् भोगानुल्लङ्घयत्येवम् / / 310 / / ____टीका - यथा मार्गज्ञो व्रजन पथि मायोदकं मरुमरिचिका यथावत् तत्त्वत: अलीकरूपेण पश्यन्जानन् अनुद्विग्न: सन् गन्तव्यस्थानं प्रति तेन मार्गण पथा यात्येव गच्छत्येव मायोदकस्य तत्त्वेन व्याघाताऽसमर्थत्वात्। एवम् इत्थम्आत्मस्वभावदयपि भोगान् कर्माक्षिप्तान्मायोदकोपमान् अलीकरूपान् असारान् पश्यन्समारोपान्तरेण तत्त्वदृष्ट्या जानन् उल्लङ्घयति भुञ्जानोऽपि नि:सङ्गतया पारवश्याऽभावात् परं पदं यात्येव। तदुक्तं योगदृष्टिसमुच्चये मायाम्भस्तत्त्वत: पश्यन्ननुद्विग्नस्ततो द्रुतम्। तन्मध्येन प्रयात्येव, यथा व्याघातवर्जितः / / 165 / / भोगान् स्वरूपतः पश्यंस्तथा मायोदकोपमान्। भुञ्जानोऽपि ह्यसङ्गः सन्प्रयात्येव परं पदम् / / 166 / / उक्तविपरीतमाह तांस्तत्त्वेन तु जानन मग्नो भावेन मोहजम्बाले / उभयभ्रष्टः स्पष्टं निरन्तरं खेदमनुभवति / / 311 / / महामहोपाध्याय श्री यशोविजय विरचितं 97 मार्गपरिशुद्धिप्रकरणंसटीकम्