________________ टीका - अनात्मज्ञः तान् भोगान् तत्त्वेन भोग एव तत्त्वमिति बुद्ध्या जानन् मन्यमान: तथाविधविपर्यासाद् मोहजम्बाले मोहपङ्के भोगनिबन्धनदेहादिप्रपञ्चे इत्यर्थः, भावेन चेतोवृत्त्या मग्नः प्रलीनो भवति। एवम्भूतो लिङ्गयपि मोहजम्बालमोहित: अज्ञातसरोमार्गपङ्कनिमग्ननीरतीरोभयभ्रष्टगज इव भावमोहे निमग्नो न हि गृहवाससौख्याय, न च संयमाय वान्तभोगाभिलाषितया तत्क्रियाया विफलत्वाद् उभयभ्रष्टः न गृहस्थो नापि प्रव्रजित: सन् स्पष्टं सुव्यक्तं निरन्तरं सततं खेदं क्लेशम्अनुभवति। तथा चार्षः - इत्थ मोहे पुणो पुणो सन्ना नो हव्वाए नो पाराए। आचारांङ्ग सूत्रं 1-2-2 / उक्तं च योगदृष्टिसमुच्चयेऽपि - भोगतत्त्वस्य तु पुनर्न भवोदधिलङ्घनम्। मायोदकदृढावेशस्तेन यातीह क: पथा / / 167 / / स तत्रैव भयोद्विग्नो यथा तिष्ठत्यसंशयम्। मोक्षमार्गेऽपि हि तथा, भोगजम्बालमोहितः / / 168 / / आत्मज्ञस्तु भोगैरपि लिप्तमतिर्न भवतीत्याह - अन्त:करणध्यानप्रतिबन्धकविघटनार्थमुद्युक्तः / भोगैरपि लिप्तमतिर्न भवत्याक्षेपकज्ञानात् / / 312 / / टीका - अन्त:करणध्यानप्रतिबन्धकविघटनार्थम् अन्त:करणेन चित्तेन ध्यानं धादि तस्य प्रतिबन्धका अन्तरायभूता विषयसत्कसङ्कल्पविकल्पास्तेषां विघटनार्थं विच्छेदार्थम् उद्युक्त : उद्यत: आत्मज्ञः श्रुतधर्मे सततलग्नचित्तत्वेन आक्षेपकज्ञानात् कान्तादृष्टिसमुपलब्धाऽऽक्षेपज्ञानेन हेतुभूतेन,आस्तां विषयभोगसम्बन्धिसङ्कल्पविकल्पैः तथाविधकर्मोपनीतै: साक्षाद् भोगैरपि शब्दादिविषयैरपि लिप्तमति: आसक्तचित्तो न नैव भवति जायते। अत एवाक्षेपकज्ञानवतो नि:सङ्गत्वाद् भोगा भवहेतवो न भवन्ति। यदुक्तं योगदृष्टिसमुच्चये- . श्रुतधर्मे मनो नित्यं, कायस्त्वस्यान्यचेष्टिते / अतस्त्वाक्षेपकज्ञानान्न भोगा भवहेतवः // 164 / / अन्यैरप्येतत्संवादि किञ्चिदुक्तम्, तथाहि - प्रजहाति यदा कामान् सर्वान् पार्थ! मनोगतान् / __ आत्मन्येवाऽऽत्मा तुष्टःस्थितप्रज्ञस्तदोच्यते / / 2-55 भगवद्गीता।।' अस्यामेव नि:सङ्गदशायां सूत्रोक्तं यद्द्घटते तदाह - उभयपदाऽव्यभिचारो भणितः सम्यक्त्वमौनयोः सूत्रे / अस्यामेव दशायां घटते सम्यग्दृशः सोऽयम् / / 313 / / टीका - य उभयपदाऽव्यभिचार : उभयपदयोर्वक्ष्यमाणयो: अव्यभिचार: समव्याप्तिः पृथिवीत्व-गन्धयोरिव अपृथग्भावसम्बन्धेनाऽन्योन्यव्याप्यव्यापकभाव इति यावत् सम्यक्त्वमौनयोः सम्यक्त्वं च तत्त्वरुचि: मौनं च परपरिणतिनिवृत्तिलक्षणं मुनिभाव इत्यर्थः सम्यक्त्वमौने तयोरुभयपदाऽव्यभिचार: व्याप्यव्यापकभावदर्शनलक्षण: स च द्वयोस्तुल्यवदाराधनप्रवृत्तये सूत्रे आचाराङ्गसूत्रे भणित: निरूपित:, तथाहि - "जं सम्मं ति पासहा तं मोणं ति महामहोपाध्याय श्री यशोविजय विरचितं 98 मार्गपरिशुद्धिप्रकरणंसटीकम्