________________ पासहा, जं मोणं ति पासहा तं सम्मं ति पासहा'' 1-5-3-156 सोऽयम् अव्यभिचार: अस्यामेव दशायां श्रुतधर्मे लग्नचित्तत्वाद् निःसङ्गावस्थायामेव कान्तादृष्ट्यपराभिधानायां सम्यग्दृष्टे: नैश्चयिकसम्यग्दर्शनवत: पुंसः घटते युक्त्योपपद्यत इति / / 313 / / अथानन्तरोक्तनि:सङ्गदशायां संयमस्थानविरहेऽपि न फलविषये व्यभिचार इत्याह संयमजन्यविशुद्धिस्तदाऽनपायेति निश्चयस्थित्या। फलविषये व्यभिचारो न संयमस्थानविरहेऽपि / / 314 / / टीका - निश्चयस्थित्या तत्त्वमर्यादया तदा तथाविधविशिष्टज्ञानदशायाम् आस्तां संयमस्थाने सति, संयमस्थानविरहेऽपि भरतादीनां संयमजन्यविशुद्धिः स्वभावरमणलक्षणा अनपाया अप्रक्षया इति हेतोः फलविषये क्षपकश्रेण्याद्यवाप्तिरूपे न नैव व्यभिचार: तद्भावभावित्वाऽभावलक्षण इति / / 314 / / उपसंहरन्नाह - . तस्मादात्मज्ञाने कार्यः सततं मुमुक्षुणाभ्यासः / किमपरशास्त्रविकल्पैर्जातिप्रायैः कुतर्कोत्थैः / / 315 / / ___टीका - यस्माज्ज्ञानदशायां संयमजन्यविशुद्धिरनपाया तस्मात् कारणाद् आत्मज्ञाने अध्यात्मशास्त्रगोचरे पञ्चविधेऽपि स्वाध्याये तत्फलभूते वा स्वरूपोपयोगे अभ्यासः पौन:पुन्येन मुमुक्षुणा मोक्षाभिलाषिणा कार्य: विधेयः। किमपरशास्त्रविकल्पैः कीदृशैः ? कुतर्कोत्थैः आगमनिरपेक्षशुष्कतर्कप्रभवै: जातिप्रायैः दूषणाभासप्रायैः, नास्ति किमपि प्रयोजनमित्यर्थः / मिथ्यादृक्प्रणीतवस्तुशून्यकुशास्त्रविकल्पपराङ्मुखः सन्सातत्येनाऽऽत्मज्ञानेऽभ्यासो विधेय इत्युपदेशः / / 315 / / यत: आत्मज्ञानविरहिते शास्त्रे शस्त्रे च कोऽपि न विशेषः। भ्राम्यन्ति मूढलोका: केवलमाकारभेदेन / / 316 / / . टीका - आत्मज्ञानविरहिते जिनागमव्यतिरिक्त शास्त्रे वाङ्मये शस्त्रे च अस्यादौ च दुर्गृहीते न नैव कोऽपि कश्चिद् विशेष : भेदः, एकस्य ज्ञानादिभावप्राणनाशकत्वेनाऽपरस्य चेन्द्रियादिद्रव्यप्राणनाशकत्वेन तुल्यत्वात्। यदि वाऽऽत्मज्ञानविरहिते विषयिभूते पुंसि शास्त्रे शस्त्रे च न कोऽपि विशेषो दुर्गृहीतत्वात्, तथाभूते पुंसि सच्छास्त्रस्याऽपि विपरीतबोधनिमित्तत्वेनाऽपायहेतुत्वात्। अत एव युक्तमुक्तं भ्राम्यन्ति भव्याटव्यां मूढलोका: मोहमोहितमतयः केवलं नवरम्आकारभेदेन गृहिलिङ्गद्रव्यलिङ्गकुलिङ्गधारिणआत्मज्ञानलक्षणं सद्धर्मयानं विना। तदुक्तं च ग्रन्थकारेणैव साधुः श्राद्धश्च संविग्नपक्षी शिवपथास्त्रयः। शेषा भवपथा गेहिद्रव्यलिङ्गिकुलिङ्गिनः / / द्वात्रिंशद्-द्वात्रिंशिका 2915 / / 316 / / तथा - * हितमहितमुचितमनुचितमवस्तु वस्तु स्वयं न यो वेत्ति / स पशुः शृङ्गविहीन: संसारवने परिभ्रमति / / 1 / / (श्राद्ध-विधिप्रकरणे) एवं स्थिते परमसुहृद्भूय ग्रन्थकारोऽनुशास्ति - महामहोपाध्याय श्री यशोविजय विरचितं 99 मार्गपरिशुद्धिप्रकरणंसटीकम्