________________ आत्मज्ञानग्रन्थाः पन्थानो ये तु मोक्षनगरस्य / गुरुतरगुणगुरुचरणप्रसादतस्तेऽनुसर्तव्याः / / 317 / / टीका - ये वक्ष्यमाणा: तुशब्दः पुनरर्थे पन्थान: उपाया: मोक्षनगरस्य शिवपुरस्य ते आत्मज्ञानग्रन्थाः श्रीजिनागमा: गुरुतरगुणगुरुचरणप्रसादत: गुरुतरगुणा ब्रह्मचर्यादयः यदुक्तम् - व्रतानां ब्रह्मचर्यं हि निर्दिष्टं गुरुकं व्रतम् / तज्जन्यपुण्यसम्भार-संयोगाद् गुरुरुच्यते / / 1 / / तथा - गुरुर्गृहीतशास्त्रार्थः परां नि:सङ्गतां गतः / मार्तण्डमण्डलसमो भव्याम्भोजविकाशने / / 1 / / गुणानां पालनं चैव तथा वृद्धिर्जायते / यस्मात् सदैव स गुरुभवान्तरनायकः / / 2 / / अनन्तरोक्तगुरुतरगुणैरलङ्कृता गुरुचरणा आचार्यपादास्तेषां प्रसादतश्चित्तानुवृत्तिलब्धाऽनुग्रहतः, यत: - दुर्लभो विषयत्यागो दुर्लभं तत्त्वदर्शनम् / दुर्लभा सहजाऽवस्था सद्गुरोः करुणां विना / / 1 / / अनुसर्तव्याः तदुक्ताऽऽसेवनेनाऽन्यथा प्रत्यपायभावात्। यदुक्तम् पडिवज्जिऊण किरियं तीए विरुद्धं निसेवइ जोउ। अपवत्तगाउ अहियं सिग्धं च संपावइ विणासं / / 1 / / 317 / / अथाशीर्वचनेन समापयन्नाह - एनां गुरोरधीत्य श्रद्धत्ते य इह मार्गपरिशुद्धिम् / परमानन्दं लभते स यशोविजयश्रिया पूर्णम् / / 318 / / ' टीका - यः कश्चिदासन्नसिद्धिक: एनां मार्गपरिशुद्धिम् उक्तस्वरूपांगुरोः सकाशाद् अधीत्य पठित्वा श्रद्धत्ते परमहिततया विश्वसिति स भव्यसत्त्व: यशोविजयश्रिया यशश्च शारदचन्द्रचन्द्रिकोज्ज्वलं विजयश्च दुर्वाररागादिवैरिव्रातस्य यशोविजयौ तावेव श्रीस्तया पूर्ण पूरितं परमानन्दं समस्तद्वन्द्ववर्जितमव्याबाधसिद्धपरमात्मसुखं लभते प्राप्नोति।अनेन ग्रन्थकृता महामहोपाध्यायश्रीमद्यशोविजयवाचकेन स्वनामाऽपि सूचितमिति / / 318 / / अथ ग्रन्थकारप्रशस्ति: श्रीविजयदेवसूरौ जयिनि श्रीविजयसिंहसूरौ द्याम् / प्राप्ते साम्राज्यभृति श्रीमद्विजप्रभाचार्ये / / 1 / / रुचिरं सतीर्थ्यभावं दधतां श्रीजीतविजयविबुधानाम् / श्रीनयविजयविबुधानां शिशुनाऽयं विरचितो ग्रन्थः / / 2 / / महामहोपाध्याय श्री यशोविजय विरचितं 100 मार्गपरिशुद्धिप्रकरणंसटीकम्