________________ 5 प्रशस्तिः / श्रीमद्वीरजिनेशस्य श्रीसुधर्मा गणाधिपः / तपागच्छतरोर्मूलं श्रीगणिपिटकस्य च / / 1 / / तस्य परम्पराऽऽयातः प्रवचनप्रभावकः / श्रीमद्विजयसिंहाख्यः सिंहो दुर्वादिकुम्भिषु / / 2 / / तस्य पट्टाम्बरे सूर्यः शैथिल्यध्वान्तशाषणः / श्रीसत्यविजयोऽभूच्च सत्यनिष्ठशिरोमणिः / / 3 / / पट्टे तदीयके श्रीमान् कर्पूरविजयाभिधः / अभवदतिकर्पूरः प्रसरच्छीलसौरभः / / 4 / / तत्पट्टाभ्रनिशानाथ: सनाथ: सौम्यभावतः / क्षमाभृतां पुरोगामी श्रीक्षमाविजयोऽभवत् / / 5 / / जिनोत्तम-पद्य-रूप-कीर्ति-कस्तूरपूर्वकाः / विजयान्ताः क्रमाऽऽयाताः वित्त्वकवित्वधीधनाः / / 6 / / तत्पट्टे स्वतपस्तेजस्तिरस्कृतनभोमणिः / श्रीमणिविजयचिन्तामणिरीप्सितदोऽभवत् / / 7 / / तस्य शिष्योऽभवद् बुद्ध्या विनिर्जितबृहस्पतिः / श्रीबुद्धिविजयः सेव्यो बुधैर्बुद्धिगुणान्वितः / / 8 / / तत्पट्टे न्यायपाथोधिः धिया धृत्या समन्वितः / सदैव सत्यतत्त्वान्विट सिद्धान्त-रे-कषोपल: / / 9 / / अपूर्वग्रन्थनिर्माता मिथ्यामतनिकन्दनः / नाम्माऽपरेण विख्यात आत्मारामेति सात्त्विकः / / 10 / / भूरिसुशिष्यकः प्रौटः आद्य आचार्यनायक: / अभूच्छीविजयानन्दो जगदानन्ददायकः / / 11 / / / / कुलकम् / / स्मारको जिनकल्पस्य स्वचारित्रेण साम्प्रतम् / श्रीमान् कमलसूरीशः पट्टेऽभूत्तस्य कर्मठः / / 12 / / शिष्यः श्रीविजयानन्दसूरेर्बभूव सिद्धवाक् / श्रीवीरविजयो मन्येऽन्यजन्माचीर्णसंयमः / / 13 / / / आबालभाववैराग्य उपाध्यायवरः कविः / स्वस्याद्भुतचरित्रेण सज्जनस्वान्तचित्रकृत् / / 14 / / युग्मम् / / विजयदानसूरीश: शिष्यस्तस्य बुधाग्रणीः / श्रुतदाने सदासक्तः सक्तः सुसाधुसर्जने / / 15 / / तत्कालधीश्च सज्योतिः सर्वागमरहस्यवित् / श्रीमत्कमलसूरीशपट्टप्रभावकोऽभवत् / / 16 / / युग्मम् / / तच्छिष्यो ब्रह्मनिष्ठोऽपि प्रशस्तचरणक्रियः / विशालगच्छनिर्माता सत्सिद्धान्तमहोदधिः / / 17 / / स्रष्टा कर्मविवृत्त्यादेः सप्तशतमुनीश्वरः / प्रेम्णाऽजातशत्रुर्जीयात् प्रेमसूरीश्वरः प्रभुः / / 18 / / युग्मम् / / तस्य चरमशिष्याणुकुलचन्द्रसूरिणा / वैक्रमेऽब्दे ऋषीन्द्रियाऽभ्रनयनमिते शुभे / / 19 / / व्यरचि श्रुताट्टीकेयं जयताज्जिनशासने / यत्स्यात् सूत्रितमुत्सूत्रितं शोधयन्तु बहुश्रुताः / / 20 / / यद्यपीयं प्रयत्नेन मुनिवरेण शोधिता / जैनशासनरत्नेन श्रीयशोविजयेन हि / / 21 / / त्रिभिर्विशेषकम् / / महामहोपाध्याय श्रीयशोविजय विरचितं मागपिरिशदिप्रकरणंसटीकम