________________ ज्ञानादिगुणेषु वर्धमानेषु सत्सु चारित्रयोग्यो सर्वत्यागात्मकभावस्तवयोग्यो भवति जायते बुधः सुधीः। अत्र तन्त्रयुक्तिमाह - अत एव चतुर्विधे दानशीलतपोभावभेदे धर्मे जिनप्रणीते क्रमकथनतः पूर्वं दानं तत: शीलं ततस्तपस्ततो भाव इत्येवं क्रमकथने हेतुफलभावात् कार्यकारणभावादिति / / 247 / / एतदेव विशदयति - यः सद्बाह्यमनित्यं दानं दत्ते न शक्तिमान् लुब्धः / दुर्धरतरं कथमयं बिभर्ति शीलव्रतं क्लीबः / / 248 / / नाशीलः शुद्धतपः कर्तुं सहते न मोहपरतन्त्रः / शक्त्या तपोऽप्यकुर्वन् भावयति सुभावनाजालम् / / 249 / / टीका - यः प्राणी सद् विद्यमानं बाह्यम् आत्मनो भिन्नम् अनित्यम् अशाश्वतं दानं पिण्डादि न नैव दत्ते वितरति पात्रादौ शक्तिमान् सामर्थ्यवान् लुब्ध : गृध्न: कार्पण्यात् स: अयं क्लीब: नि:सत्त्वः कथं केन प्रकारेण बिभर्ति धारयति दुर्धरतरं महापुरुषसेवितं शीलव्रतम् असिधारम्? नैवेति गाथार्थः / / 248 / / अशीलश्च न नैव शुद्धतपः मोक्षाङ्गभूतं कर्तुं विधातुं सहते क्षमते। शक्त्या यथाशक्ति तपोऽप्यकुर्वन् मोहपरतन्त्र: अतपस्वी न नैव भावयति परिशीलयति सुभावनाजालम् अनित्यादिभावनासमूहम्। एवं हेतुफलभावाद् दानशीलतपोभावभेदस्य धर्मस्य क्रमशो योगः, अन्यथाऽयोग एवेति / / 249 / / अनन्तरोक्तान् दानादिभेदान् द्रव्यभावस्तवयोः समवतारयन्नुपसंहरति - द्रव्यस्तवोऽत्र दानं शेषा भावस्तवाः सुपरिशुद्धाः / संक्षिप्तेयं सूत्रे विस्तरतः स्तवपरिज्ञा तु / / 250 / / टीका - अत्र प्रक्रमे दानं दानधर्म: द्रव्यस्तव एव ज्ञेय: अप्रधानत्वात्, शेषास्तु सुपरिशुद्धाः शीलधर्मादयो भावस्तवा: ज्ञेया: प्रधानत्वात्। उपसंहरन्नाह - संक्षिप्तेयं स्तवपरिज्ञा वर्णिताऽत्र। विस्तरतस्तु भावार्थपुरस्सरा सूत्रे महानिशीथादौ वर्णितेति ततो ज्ञातव्येति / / 250 / / एवंविधमन्यदपि नूतनाचार्यो वाचयतीत्याह - एवंविधमन्यदपि ज्ञानपरिज्ञादि वाचयति धीरः / ज्ञात्वा स्वशिष्यसम्पदमुद्युक्तः प्रवचनहितेऽसौ / / 251 / / टीका - एवंविधं स्तवपरिज्ञातुल्यम् अन्यदपि गभीरार्थं ज्ञानपरिज्ञादि आदिपदाद् नन्दिसूत्रादि असौ स्थापिताचार्य: धीर: सुधी: उद्युक्त: उद्यत: प्रवचनहिते प्रवचनयोगक्षेमवृद्ध्यादिलक्षणे वाचयति व्याख्यानयति ज्ञात्वाऽवबुध्य स्वशिष्यसम्पदम् औचित्येनेति / / 251 / / एवमनुयोगानुज्ञा लेशतो दर्शिता। अथ गणानुज्ञामाह - अस्यैव परानुज्ञा क्रियते गुणिन: कदाचिदन्यस्य / उदयति सहृदयमुख्याद् यस्माज्जिनशासनश्लाघा / / 252 / / टीका - अस्यैव गुणिनः अनुज्ञाचार्यस्य परानुज्ञा गणानुज्ञा क्रियते विधीयते, कदाचिद् दिव्यसङ्केतादौ अन्यस्य योग्यस्य गुणयोगाद्द्वात्सल्यानुवर्तनादिगुणयोगात् कारणात्यस्मात् सहृदयमुख्यात् प्रशस्तमनसो महापुरुषमहामहोपाध्याय श्री यशोविजय विरचितं 82 मार्गपरिशुद्धिप्रकरणंसटीकम्