________________ सकाशाद् उदयति वर्धते जिनशासनश्लाघा प्रवचनप्रभावनेति / / 252 / / अस्या योग्यमाह - सूत्रार्थे निष्णात: प्रियदृढधर्मोऽनुवर्तनाकुशलः / गम्भीरो लब्धिनिधिः कृतकरण: शुद्धजातिकुलः / / 253 / / प्रवचनदृढानुरागः सोपग्रहसङ्ग्रहः स्थिरप्रकृतिः / पुरुषोत्तम इह गच्छस्वामी भणितो जिनवरेन्द्रैः / / 254 / / युग्मम्।। टीका - सूत्रार्थे निष्णात: निष्ठित:, प्रियदृढधर्म: उभययुक्त:, अनुवर्तनाकुशल: उपायज्ञः, गम्भीरः अलब्धमध्यः, लब्धिनिधिः उपकरणाद्याश्रित्य, कृतकरण: अभ्यस्तक्रियः, शुद्धजातिकुल: उभयसम्पन्नः, प्रवचनदृढानुराग: जिनशासने नितान्तानुरागी, सोपग्रहसङ्ग्रहः उपग्रह उपष्टम्भः स च श्रुतज्ञानादिप्रदानतः, सङ्ग्रह उपदेशादिना शिष्यादेः, एतद्वयनिरत:, स्थिरप्रकृति: प्रेक्षापूर्वककारितया, उपलक्षणात् प्रकृत्या परार्थप्रवृत्तः, अत एव पुरुषोत्तमः, इह मौनीन्द्रप्रवचने गच्छस्वामी गणधरो, भणित: प्रतिपादित:, जिनवरेन्द्रैः अर्हद्भिरिति / / 253-54 / / तथा - गीतार्था कृतकरणा कुलजा परिणामिनी च गम्भीरा / चिरदीक्षिता च वृद्धा प्रवर्तिनी संयती भणिता / / 255 / / टीका - गीतार्था श्रुतोचितागमा, कृतकरणा अभ्यस्तक्रिया, कुलजा विशिष्टा, परिणामिनी उत्सर्गापवादविषयज्ञा, गम्भीरा महाशया, चिरदीक्षिता दीर्घपर्याया, वृद्धा वयोऽवस्थया, चशब्दौ समुच्चये ,संयती आर्या भणिता निरूपिता प्रवर्तिनी महत्तरिका जिनवरेन्द्रैरिति शेषः / एतद्गुणविप्रमुक्ते प्राणिनि यो ददाति साध्वादिगच्छं प्रवर्तिनी पदं वा, योऽपि प्रतीच्छति नवरं यश:कामितया स प्राप्नोत्याज्ञादिदोषानिति / / 255 / / एतत्पदमाहात्म्यप्रदर्शनपुरस्सरं पात्रदानाय स्थापितस्य च सम्यक्पालनायाह - व्यूढो गणधरशब्दो गौतममुख्यैः स्वयं पुरुषसिंहैः / यस्तमपात्रे धत्ते जानानोऽसौ महापापः / / 256 / / कालोचितगुणरहिते स्वस्मिन् यः स्थापितं च तं शब्दं / अनुपालयति न सम्यग् विशुद्धभावः स्वशक्त्यापि ।।२५७।।युग्मम्।। टीका - व्यूढो सम्यग्धृत: यो गणधरशब्दो गणनायकपदं स्वयम् आत्मना गौतममुख्यैः इन्द्रभूतिऋषभसेनप्रमुखैः पुरुषसिंहै : गणधरमहात्मभिः तं गणधरशब्दं यो जानान: अधिगच्छन्नपि अपात्रे अयोग्ये धत्ते स्थापयति असौ स्थापक: महापाप: मूढो ज्ञातव्यः / / 256 / / न केवलं निवेशक एव महापापः, अपितु कालोचितगुणरहिते दु:षमकालप्रभावाद् हीनगुणे स्वस्मिन् आत्मनि स्थापितं च निवेशितं च तं शब्दं गणधरशब्दं यो गणनायक: विशुद्धभावः सन् स्वशक्त्याऽपि न नैव सम्यग् यथाविधि अनुपालयति संरक्षति सोऽपि महापाप: अवसेय इति भावः / / 257 / / तथा च - महामहोपाध्याय श्री यशोविजय विरचितं 83 मापिरिशद्धिप्रकरणंसटीकम