________________ टीका - यद् यथा वैद्यके आयुर्वेदे निषिद्धः प्रत्याख्यातो दाहः अग्निविकारो दुःखकरत्वेन प्रतीतो व्याधिक्षयार्थं गण्डादिक्षयनिमित्तं पुन: विहितोऽपि उपदिष्टोऽपि ओघनिषेधोक्तं सामान्यप्रतिषेधोक्तं दुःखकरत्वं दाहजन्याऽसुखकरत्वं गण्डादिक्षयलक्षणफलसिद्धावपि नो नैव प्रतिक्षिपति निराकरोति, अपितु सर्वावस्थासु दाहस्य दु:खकरत्वं स्वीकरोति स्वभावस्य त्यक्तुमशक्यत्वात्, तथैव वेदेऽपि उत्सर्गेण निषिद्धा हिंसा फलोद्देशाद् विहिताऽपि ओघनिषेधोक्तं दोषत्वं नैव प्रतिक्षपतीति प्रतिपत्तव्यं स्यादिति / / 244 / / प्रासङ्गिकमभिधायोपसंहरन्नाह - किमिह प्रसक्तकथया भावद्रव्यस्तवावुचितनीत्या / अन्योन्यसमनुविद्धौ भवतो नियमेन मन्तव्यौ / / 245 / / टीका- किं प्रश्ने न किञ्चिदित्यर्थः इह द्रव्यभावस्तवविचारे प्रसक्तकथया प्रासङ्गिकवार्तया, अलमिति भाव: / भावद्रव्यस्तवौ उक्तस्वरूपौ उचितनीत्या प्रधानगौणभावेन अन्योन्यसमनुविद्धौ परस्परं सङ्कलितौ भवतः विद्यते इति नियमेनाऽवश्यंतया मन्तव्यौ ज्ञातव्यौ, तथाहि - श्रावकाणां प्राधान्येन जिनभवननिर्माणादिरूपो द्रव्यस्तवो भगवद्गतचरणादिगुणंबहुमानगर्भत्वेन चरणप्रतिपत्तिहेतुत्वाद्भावस्तवेनाऽनुविद्धो भवति। तदुक्तं च जिणभवणबिंबठवणजत्तापूआइ सुत्तओ विहिणा। दव्वत्थओ त्ति नेओ, भावत्थयकारणत्तेण / / 1 / / साधूनां च प्रधानरूपेण सर्वत्यागरूपो भावस्तवः श्रावकविहितजिनपूजादिदर्शनेन प्रमोदानुमतिद्वारा कारणेन च . श्रावकैरुपदेशद्वारा गौणभूतेन द्रव्यस्तवेन युतो भवति, अन्यथा स्वरूपाभाव इति / / 245 / / अनयोविधिमाह - द्रव्यस्तवोऽल्पशक्तेर्भावस्तव एव भवति गुरुशक्तेः / पलशतभराऽसमर्थो नहि वोढुं पर्वतं सहते / / 246 / / टीका - द्रव्यस्तव उक्तस्वरूप: अल्पशक्तेः स्वल्पशुभाऽऽत्मपरिणामस्वरूपाऽल्पवीर्यस्य प्राणिनः, गुरुशक्ते: विशुद्धाऽऽत्मपरिणामलक्षणबहुवीर्यस्य सत्त्वस्य पुनर्द्रव्यत्यागेन भावस्तवः जिनाज्ञया सर्वसंयम एव श्रेयस्करः, यत: पलशतभराऽसमर्थ : द्रव्यस्तवलक्षणस्वल्पभाराऽसमर्थो नहि नैव वोढुम् आक्रष्टुं पर्वतं सर्वसंयमरूपं गिरि सहते क्षमते यतोऽसौ भावस्तवः शुभात्मपरिणामरूपमुत्कृष्टतरं वीर्यमपेक्षतेऽत: अल्पवीर्य:कथंकरोत्येनम्। इदमुक्तं भवति - यः क्षुद्रो - बाह्यवित्तत्यागेन वन्दनादौ आत्मनः स्वल्पमपि निग्रहं न करोति स यावज्जीवं सर्वत्यागेन कथं निग्रहं कुर्यात्? नैव कुर्यादिति भावः / नन्वारम्भत्यागेन या द्रव्यस्तवहानिः सा च दोषावहेति चेद्, नआरम्भत्यागेन ज्ञानादिगुणेषु वर्धमानेषु सत्सु यद्यपि द्रव्यस्तवहानिर्जायते तथाऽपि सा दोषाय न भवति यतः सा द्रव्यस्तवहानिरपि ज्ञानादिगुणवृद्धिफलेति / / 246 / / एतदेवाह - यदतश्चरित्रयोग्यो बाह्यत्यागक्रमेण भवति बुधः / क्रमकथनतो धर्मे चतुर्विधे हेतुफलभावात् / / 247 / / टीका - यद् यस्मात् श्रावक: अत: द्रव्यस्तवाद् बाह्यत्यागक्रमेण वक्ष्यमाणलक्षणेन बाह्यवित्तत्यागक्रमेण |महामहोपाध्याय श्री यशोविजय विरचितं 81 गापिरिशुद्धिप्रकरणंसटीकम् |