________________ व्यामोह एव स्वतोऽज्ञत्वात्। निदर्शनमाह - अन्धेनाऽन्धाऽऽनयनप्रायो जात्यन्धानां श्वेतेतररूपविशेषस्थापने परम्परा न प्रमाणमित्यर्थः, तथा सम्प्रदायोऽपि वेदवचनानां अर्थनिर्णये न प्रमाणमिति भावः / / 240 / / ननु भवतोऽपि च सर्वज्ञः सर्व आगमपुरस्सर:, स्वर्गकेवलार्थिना हि तपोध्यानादि कर्तव्यमित्यागमः, अत: प्रवृत्तेरिति, तदसावपौरुषेय आगम: अनादिमत्सर्वज्ञसाधनत्वात्।अनादिमान् वा सर्वज्ञो नागमादेव कस्यचिन्मरुदेवीस्थानीयस्याऽऽगमान्तरेणाऽपि भावादित्याशङ्कयाह - अस्माकं च न दोषः सर्वज्ञे वचनपूर्वकेऽपि सति / बीजाङ्करवदनादेर्नियमादर्थाश्रिताभावात् / / 241 / / टीका - आस्तां वचनमन्तरेण वचनपूर्वकेऽपि आगमपुरस्सरेऽपि सर्वज्ञे सति अस्माकं च जनानां पुन: न नैव दोष: भवदुक्ताऽपौरुषेयादिकः, यस्मादेतदुभयम् आगम: सर्वज्ञश्च बीजाङ्करवद् अनादेर्भावाद् न ह्यत्रैदं पूर्वमिदं नेति व्यवस्था। ततश्च यथोक्तदोषाभावः / अथवा अर्थाश्रिताद् अर्थमाश्रित्यैव नियमाद् बीजाङ्करन्यायात् सर्व एव सर्वज्ञः कथञ्चिदागमार्थमासाद्य सर्वज्ञो जातः, तदर्थश्च तत्साधक इति। न तु वचनमेवाश्रित्य, मरुदेव्यादीनां प्रकारान्तरेणाऽपि भावात्। इतश्च न वचनतोऽनादिः, यतो वक्त्रधीनं तत्, न ह्यनादिरपि वक्तारमन्तरेण वचनप्रवृत्तिः, उपायान्तराभावात् तदर्थप्रतिपत्तिस्तु क्षयोपमशमादेरविरुद्धा, तथादर्शनात्, तस्माद् जैनागमो नाऽपौरुषेयः / एतत् सूक्ष्मधिया भावनीयमिति / / 241 / / वेदवचने तु नैवमित्याह - हिंसादोषादि न तत् सर्वत्रास्मिन्नसम्भवद्रूपे / न हि रत्नगुणोऽरत्ने नास्थाने तन्नयः स्थाप्यः / / 242 / / टीका - यत् सद्रूपजिनवचनसिद्ध हिंसादोषादि हिंसादोषयतनागुणादि तत् सर्वम् अस्मिन् वेदवचने सर्वत्र आगमादौ न्यायेन असम्भवद्रूपेन नैव युज्यते, सामान्यवचने विशेषगुणाऽयोगात्। अत्रार्थे दृष्टान्तपूर्वकं शिक्षयन्नाह - यथा न हि नैव रत्नगुण: शिरःशूलशमनादिक: अरत्ने घर्घरघट्टादौ उपलसाधाद् आरोपयितुं योग्यः, तथा बुधेन विपश्चिता तन्नयः सद्रूपजिनवचनगतसुन्याय: अस्थाने वैदिकवचनलक्षणे न नैव स्थाप्य: नियोजनीयो लघुताऽऽपादानदोषभयादिति / / 242 / / तत्र युक्तिमाह - भूतवधं खलु वेदो निषिध्य तं नियमयन् फलोद्देशात् / फलभावेऽप्युत्सर्गत्यागे दोष निवेदयति / / 243 / / टीका - वेदः उत्सर्गेण भूतवधं निषिध्य एव खलु शब्दोऽवधारणे यथा “न हिंस्या भूतानि'' तं भूतवधं फलोद्देशात् फलमुद्दिश्य पुन: नियमयन् विधिरूपेण व्यवस्थापयन् यथा “अग्निहोत्रं जुहुयात् स्वर्गकामः'' दोषं निवेदयतीति सम्बन्धः।आस्तां स्वर्गादिफलाभावे फलभावेऽपि उत्सर्गत्यागे “न हिंस्याद्भूतानि'' इत्युत्सर्गविधेस्त्यजने दोषं पूर्वापरविरोधलक्षणं निवेदयति सूचयति औत्सर्गिकवाक्यार्थदोषप्राप्तेरेवेति / / 243 / / अनन्तरोक्तमेव दृष्टान्तपुरस्सरं दृढयति - यद्वैद्यके निषिद्धो दाहो व्याधिक्षयार्थमपि विहितः / ओघनिषेधोक्तं नो दुःखकरत्वं प्रतिक्षिपति / / 244 / / महामहोपाध्याय श्री यशोविजय विरचितं 80 मार्गपरिशुद्धिप्रकरणंसटीकम् |