________________ टीका - मात्र वेदे किं वर्णानाम् अपौरुषेयत्वम्, लोकेऽपि लौकिकवचनानामपि ईश्वरकर्तृकत्वेन पुरुषैरविकरणाद् न दृष्टं विलोकितं पौरुषेयत्वम्, अपि त्वपौरुषेयत्वं दृष्टमेव। एवं सति वेदे को विशेष:? येन तत्रैवापौरुषेयत्वाऽसद्ग्रहः / न च निश्चयोऽपि ततो वेदवाक्याद् युज्यते प्राय: क्वचिद् वस्तुनि, अत्र हेतुमाह - तत्प्रकाशकशक्तेरनिश्चयावेदवचनस्याऽपौरुषेयत्वाभ्युपगमे वेदवाक्यार्थप्रकाशनविषयेऽतीन्द्रियशक्तिप्रसङ्गदर्निवार: वैदिकैश्चाऽतीन्द्रियशक्तिमत: कस्यचित् पुरुषविशेषस्यानभ्युपगमादिति भावः / / 237 / / एतदेवाह - नेयन्त्रमात्रगम्या तदतिशयो बहुमतो न युष्माकम् / लौकिकवाग्भ्यो दृष्टं कथञ्चिदत्रापि वैधर्म्यम् / / 238 / / टीका - न नैव इयम् अतीन्द्रियशक्ति: नृमात्रगम्या पुरुषमात्रगम्या तस्यातीन्द्रियशक्तिमत्त्वाभावात्, तदतिशयोऽपि अतीन्द्रियदर्शी न नैव बहुमत: अभीष्टो युष्माकं वैदिकानाम्। अत एव वेदवाक्याद् निश्चयोऽपि न युज्यते। अत्र पर आह - केवलं वैदिकवचनान्येवाऽपौरुषेयाणि, तेषामर्थनिश्चयस्तु लोकसकाशाद् युज्यतेति चेद्, उच्यते नशब्दस्याऽनुवृत्ते: - य एव लौकिका: स्वर्गोवंशांप्रमुखा: शब्दास्त एव वैदिकाः स एवेषामर्थ इति लौकिकवाग्भ्यः सकाशाद् अत्रापि वैदिकवचनानामर्थेऽपि न कथञ्चित् केनापि प्रकारेण वैधवें भिन्नत्वं दृष्टम् अवलोकितमिति यत्किञ्चिदेतद् वैदानामपौरुषेयत्वभणनमिति / / 238 / / ननु वैदिकवचनानां स्वभावत एव दीपस्येव स्वार्थप्रकाशकत्वमिति न दोष इति चेद, उच्यते - समयभिदया न च स्वप्रकाशकत्वं विनाऽर्थनियमं च / इन्दीवरे हि दीप: शोणत्वमसत् प्रकाशयति / / 239 / / टीका- विनाऽर्थनियमं यथा घटशब्दस्य कम्बुग्रीवादिमति पदार्थे बोधजनकत्वनियमः, इत्यादिलक्षणार्थनियम विना न समयभिदा। समयभिदया संकेतभेदेन विना न च केवलं स्वभावत: स्वप्रकाशत्वं क्वचिद् युज्यते, स्वभावसमयाभ्यां शब्दानां स्वप्रकाशकत्वनियमात्। किञ्च - लौकिकवचनानां वैदिकवचनानां च तुल्यबोधजनकत्वव्यापारवत्त्वात् समयभेदोऽपि न विद्यते। एवं समयभेदाऽयोगा वेदवचनानां स्वप्रकाशकत्वं न युज्यते। तुष्यन्तु दुर्जना इति न्यायाद् वैदिकवंचनानां स्वप्रकाशकत्वाऽभ्युपगमेऽपि क्वचिद् मिथ्यात्वप्रकाशयोगात्स्वप्रकाशकत्वं विघटते, हि यस्माद् इन्दीवरे नीलकमले दीप: प्रदीप: असद् अविद्यमानं शोणत्वं रक्तत्वं प्रकाशयति प्रदर्शयति, उपलक्षणात् चन्द्रोऽपि पीतवस्त्रं धवलमिति प्रकाशयति। इत्थं व्यभिचारयोगाद् वेदवचनान्नार्थनिश्चय इति / / 239 / / अत एवात्र गुरुसम्प्रदायोऽपि न प्रमाणमित्याह - मूलच्छेदाद्बोधो न वा सुधीसम्प्रदायतोऽप्यत्र अन्धेनान्धाऽऽनयनप्रायो गुरुशिष्यबोधो यत् / / 240 / / टीका - यद्यस्माद् अत्र वेदवचने मूलच्छेदात्, तथाविधाऽपौरुषेयवचनाऽसम्भवाद्न नैव बोध : अर्थबोध:, न वा सुधीसम्प्रदायतोऽपि कथिताऽऽगमार्थप्रयोगकोविदगुरुशिष्यसम्प्रदायाभावादपि नार्थबोध: शक्यः, इत्थं वेदवचनाद् न कस्यचिदिह क्वचिद्वस्तुनि निश्चयो जात इति स कथयति। तस्माद् गुरुशिष्यबोध: आचार्यविनेयसम्बन्धी निश्चयो महामहोपाध्याय श्री यशोविजय विरचितं 79 गापिरिशुद्धिप्रकरणंसटीकम्