________________ तथा - ग्रन्थकर्तुरपि श्लोका इमेऽत्रानुसन्धेया: - हिंसाया ज्ञानयोगेन, सम्यग्दृष्टेर्महात्मनः / तप्तलोहपदन्यासतुल्याया नानुबन्धनम् / / 47 / / सतामस्याश्च कस्याश्चिद् यतनाभक्तिशालिनाम्। अनुबन्धो ह्यहिंसाया जिनपूजादिकर्मणि / / 48 / / हिंसानुबन्धिनी हिंसा मिथ्यादृष्टेस्तु दुर्मतेः / अज्ञानशक्तियोगेन तस्याऽहिंसाऽपि तादृशी / / 49 ।।अध्यात्मसार-१२ सम्यक्त्वाधिकारः / / 234 / / उक्तविपरीतं च वेदवचनमित्याह - वेदवचनं च नैवं, न पौरुषेयं मतं यतस्तद्धि / इदमत्यन्तविरुद्धं वचनं चापौरुषेयं च / / 235 / / टीका- वेदवचनं वैदिकं वचनं च नैवं बहुगुणं यतो यस्मात् तद्धि वेदवचनं च न नैव पौरुषेयं पुरुषप्रभवं मतं स्वीकृतं वैदिकैः / इदं वेदवचनस्याऽपौरुषेयत्वम् अत्यन्तविरुद्धं दृष्टेष्टविरोधाद्, उच्यते इति वचनं तच्चाऽपौरुषेयं च, माता च वन्ध्या इति वचनवत्वचनाभावप्रसङ्गादिति / / 235 / / एतदेव भावयति - क्वचिदपि न श्रुतमुच्चैः पुरुषव्यापारविरहितं वचनम् / श्रवणेऽपि च नाऽऽशङ्का विलीयतेऽदृश्यकर्तृगता / / 236 / / टीका - क्वचिदपि क्षेत्रे काले च न नैव श्रुतम् आकर्णितं पुरुषव्यापारविरहितं पुरुषगतकण्ठताल्वादिव्यापारशून्यं वचनं भाषितम्। क्वचित् कदाचिच्च श्रवणेऽपि श्रवणगोचरीभूतेऽपि च सति अदृश्यकर्तृगता अदृश्यकर्तृद्भवा आशङ्का आरेका च न नैव विलीयते निवर्तते प्रमाणाभावात्। नन्वदृश्यकर्तृकं नैवाऽन्यत् श्रूयते, कथं न्वाशङ्केति चेद्, उच्यते - श्रूयते पिशाचवचनं कदाचिल्लौकिकमेतद्, वैदिकमपौरुषेयमपि श्रूयत इत्यभ्युपगमस्तर्हि सदैव तच्छ्रवणापत्तिः, न च कदाचिदपि श्रूयत इति यत्किञ्चिदेतत्। तथा चाहुः - ताल्वादिजन्मा ननु वर्णवर्गो वर्णात्मको वेद इति स्फुटं च। पुंसश्च ताल्वादि तत: कथं स्यादपौरुषेयोऽयमिति प्रतीतिः / / 1 / / / / 236 / / अथ तुष्यन्तु दुर्जना इति न्यायाद् वैदिकानां सर्वं चराचरं जगद् ईश्वरसृष्टमिति वेदाअपि तदन्तर्गता इत्यभ्युपगम्य दूषणमाह वेदे किं वर्णानां लोके दृष्टं न पौरुषेयत्वम् / अपि तत्प्रकाशकशक्तेरनिश्चयान्निश्चयो न ततः / / 237 / / महामहोपाध्याय श्री यशोविजय विरचितं 78 मार्गपरिशुद्धिप्रकरणंसटीकम्