________________ अंशस्तत्र शुभतरो बहुदोषनिवारणेह विश्वगुरोः / नागादेराकर्षणदोषेऽपि यथेह शुभयोगः / / 231 / / - टीका - अंश: प्रधानोंश: तत्र शिल्पादिविधाने शुभतर: प्राणिरक्षाकारितया बहुदोषनिवारणा परस्परकलहवधपरधनहरणादिनिवारणा इह युगारम्भे जगति वा विश्वगुरोआद्यभगवत: अल्पदोषेऽपि शुभयोग: अनुबन्धतः। अत्रार्थे दृष्टान्तमाह - यथा यद्वद् इह जगति नागादेः व्यालादेर्भयाद् गर्तातो बालस्य आकर्षणदोषेऽपि कण्टकादेरीषत्पीडासत्त्वेऽपि मातुःशुभयोग: प्राणरक्षणलक्षणगुणबहुत्वादिति / / 231 / / उपसंहरन्नाह - एवं निवृत्तिसारा हिंसेयं तत्त्वतस्तु विज्ञेया। यतनाविधिशुद्धिमतः पूजादिगतापि च तथैव / / 232 / / टीका - एवम् अनन्तरोक्तनीत्याऽनुबन्धतो निवृत्तिसारा निवृत्तिप्रधाना हिंसा पृथ्व्यादिव्यापत्तिलक्षणा इयं जिनभवननिर्माणे तत्त्वतस्तु परमार्थतो निश्चयत एवेति यावत्, कस्येत्याह - यतनाविधिशुद्धिमतश्च यतनावतो विधिशुद्धिमतश्च कर्तुः। आस्तां जिनभवननिर्माणगता पूजादिगतापि जिनबिम्बपूजासत्कारादिगतापि हिंसा तथैव यतनाविधिशुद्धिमतो निवृत्तिसारैव / / 232 / / ननु पूजया कोऽपि तुष्ट्यादिरूप उपकारोन भवति पूज्यानां कृतकृत्यत्वात्, तथा - जायते आशातना चैवमकृतकृत्यत्वापादानादित्याशङ्कयाह - अनुपकृता अपि पूज्याश्चिन्तामणिवत्फलं प्रयच्छन्ति / अधिकनिवृत्तिश्चास्यां भावेनाऽधिकरणत्यागात् / / 233 / / - टीका - आस्तामुपकृता अनुपकृता अपि पूज्या: तीर्थकृत: कृतकृत्यत्वेनैवा-चिन्त्यशक्तियुक्तत्वात् चिन्तामणिवद् उपलक्षणात् कामकुम्भज्वलनचन्दनादिव विधिसेवकाय फलंबोधिलाभादिलक्षणं प्रयच्छन्ति ददति। प्रसिद्धं चैतत्। ननु अधिकनिवृत्त्या हेतुभूतया गुणान्तरं नास्ति नियमेनात्र पूजादौ, इत्येतद्गता हिंसा सदोषैव भवति ज्ञातव्या कस्यचिदनुपकारादिति चेद्, उच्यते - अधिकनिवृत्तिश्चास्यां पूजादौ भावेन चेतोवृत्त्या अधिकरणत्यागाद् अधिकरणानिवृत्तेः कारणात्, तद्दर्शनशुभयोगाद् गुणान्तरं च परिशुद्धं पूजादौ जायत एवेति / / 233 / / उपसंहरन्नाह तद् गुणकृदियं हिंसा सर्वज्ञगिरा च सम्भवद्रूपा। निश्चिततदुक्तसमयागतात् सुधीसम्प्रदायाच्च / / 234 / / टीका - यस्मादधिकरणनिवृत्त्यादेः तत् तस्माद् इयं हिंसा पूजादिगता गुणकृत् सम्यक्त्वशुद्ध्यादिगुणकारिणी सर्वज्ञगिरा च वीतरागवाण्या च सम्भवद्रूपाअनुबन्धतो न पुनरत्यन्ताऽसम्भवस्वरूपा युक्तियुक्तेत्यर्थः, निश्चिततदुक्तसमयागताद् यदनन्तरोक्तं तत् सर्वमेतन्निश्चित्य सर्वज्ञावगतकथिताऽऽगमप्रयुक्ताऽनिवारितात् सुधीसम्प्रदायाच्च संविग्न गीतार्थगुरुसम्प्रदायाच्च तदुक्तं च पूयाए कायवहो पडिकुट्ठो सो उ किन्तु जिणपूआ। सम्मत्तसुद्धिहेउत्ति भावणीया उ निरवज्जा / / 1 / / महामहोपाध्याय श्री यशोविजय विरचितं 77 मार्गपरिशुद्धिप्रकरणंसटीकम्