________________ टीका - इयमपि जिनभवनादौ हिंसापि यतनातो वर्तमानस्य भवति अल्पा स्तोका, ध्रुवं च निश्चितं च सा यतना सर्वधर्मसर्वस्वं सर्वधर्माणामाधारभूता विज्ञेया। तदुक्तं च - जयणेह धम्मजणणी, जयणा धम्मस्स पालणी चेव। तव्वुड्डिकरी जयणा, एगंतसुहावहा जयणा / / 1262 / / जयणाए वट्टमाणो, जीवो सम्मत्तणाणचरणाणं / सद्धाबोहासेवण - भावेणाराहओ भणिओ / / 1263 / / एसा य होइ नियमा, तयहिगदोसविणिवारणी जेण / तेण णिवित्तिपहाणा, विनेआ बुद्धिमंतेणं / / 1264 / / पञ्चवस्तु / / सा च यतनाऽत्र जिनभवनादौ परिणतजलदलशुद्ध्या गालितजलव्यापारणप्रासुकेष्टकादिदलग्रहणलक्षणशुद्ध्या महार्थव्यया विपुलधननियोगाद्भवति विज्ञेया। यद्यपि महार्थव्ययोऽत्र तथाऽपि सर्वोऽसौ धर्महेतुः स्थाननियोगादिति / / 227 / / प्रासङ्गिकमाह - इत्थं खलु निर्दोषं शिल्पादिविधानमपि जिनेन्द्रस्य / / दुष्टमपि लेशत: सद् बहुदोषनिवारकत्वेन / / 228 / / . टीका - इत्ष्टं यतनागुणादेव खलुशब्दोऽवधारणे निर्दोषं निष्पापं शिल्पादिविधानमपि प्रजाऽऽजीविका) कुम्भकारादि शिल्परिधानम् आदिपदात् कलोपदेशप्रभृतिग्रहणम् जिनेन्द्रस्य आद्यतीर्थकृच्छ्रीऋषभस्वामिनः, लेशत आरंभांशतोदुष्टमपि सदोषमपि सद् बहुदोषनिवारकत्वेन परस्परकलहपरधनहरणपरदारागमनपञ्चेन्द्रियमांसभक्षणादिबहुदोषनिवारकत्वेन प्रजानामिहपरलोकहितप्रवृत्तत्वादिति / / 228 / / एतदेवाह - .. वरबोधिलाभतोऽसौ सर्वोत्तमपुण्यसंयुतो भगवान् / एकान्तपरहितरतो विशुद्धयोगो महासत्त्वः / / 229 / / यद्बहुगुणं प्रजानां तद् ज्ञात्वा खलु तथैव दर्शयति / तत्तद्रक्षणकर्तुर्यथोचितं को भवेदोषः / / 230 / / टीका - वरबोधिलाभतो गणधरादिसत्कसम्यक्त्वापेक्षया जगज्जीवहितकारित्वेन सर्वश्रेष्ठसम्यक्त्वलाभाद् असौ तीर्थकृद् सर्वोत्तमपुण्यसंयुत: अनुत्तरपुण्यसंभारो भगवान् जन्मत एव लोकोत्तरैश्चर्यवान् एकान्तपरहितरत: 'आकालमेते परार्थव्यसनिनः' इत्यादिवचनात् तीर्थकृनामकर्मसत्ताकत्वाच्च सकलसत्त्वहितप्रवृत्तत्वा विशुद्धयोगः अविसंवादिमनोवाक्कायव्यापारवान् महासत्त्व: महासात्त्विकश्च भयभैरवादिषु मेरुवन्निष्कम्पः यद्बहुगुणं यत्किञ्चिद् गुणबहुत्वावहं प्रजानां प्राणिनां तद् अनुष्ठानं विशदमतिश्रुतावधिज्ञानत्रयोगाद् यथोचितं राज्यावस्थोचितं ज्ञात्वा संबुध्यैव खलुशब्दोऽवधारणे तथैव दर्शयति उपदिशति। एवं उपदेशदाने तद्रक्षणकर्तुः प्राणिरक्षाकर्तुर्भगवतः अनुबन्धत: को भवेदोषः? न कोऽपि दोष इत्यर्थः।।२२९-३३० / / एतदेव स्पष्टयति - | महामहोपाध्याय श्री यशोविजय विरचितं 76 मार्गपरिशुद्धिप्रकरंणंसटीकम्