________________ यद्येवं गम्यते स्वर्ग, नरके केन गम्यते / / 1 / / / / 222 / / इहैवागमविरोधमाह अग्निर्मामेतस्मान् मुञ्चत्वेनस इति श्रुतिश्चेह / अन्धे तमसीत्यादि स्मृतिरपि सूचयति दुष्टत्वम् / / 223 / / टीका - इह वैदिकी हिंसायां विरोधाऽऽपादिका श्रुतिश्च वेदवागपि विद्यते, तथाहि - अग्निर्मामेतस्माद् हिंसाकृताद् एनस: पापाद् मुञ्चतु छान्दसत्वान्मोचयतु इति।अन्धे तमसि मज्जामः, पशुभिर्ये यजामहे। हिंसा नाम भवेद्धर्मो, न भूतो न भविष्यति / / इत्यादि स्मृतिरपि सूचयति दुष्टत्वं पापासक्तत्वमिति / / 223 / / नन्वनन्तरोक्ता श्रुतिः स्मृतिश्चान्यार्थेति चेद्, उच्यते, मानाभावात् कल्प्यं नात्राऽन्यार्थत्वमपि च बुद्धिमता / * प्रकृते न प्रवचने श्रूयन्ते पापवचनानि / / 224 / / टीका - न चात्रान्तरोक्तश्रुतौ स्मृतौ च अन्यार्थत्वम् अविधेर्दोषनिष्पन्नार्थत्वं वक्तुं शक्यते, मानाभावात् निश्चायकप्रमाणाभावात्। न चैवं प्रकृते जिनभवननिर्माणादौ श्रूयन्ते निशम्यन्ते प्रवचने मौनीन्द्रे पापवचनानि दुष्टत्वख्यापकानीति / / 224 ।।अथ हिंस्यमानानां परिणामसुखं यदुक्तं (गाथा 203) तदपि उपन्यासमात्रमित्याह अनुपन्यस्यमनिष्टेः परिणामसुखं च हिंस्यमानानाम् / दृष्टेष्टविरुद्धार्थाच्छुभभावो म्लेच्छभावसमः / / 225 / / .. टीका - परिणामसुखं च स्वर्गादिलक्षणं च यागादौ हिंस्यमानानां पश्चादीनाम् अनुपन्यस्यं नैवोपन्यसनीयम् अनिष्टेः जैनैरनिष्टत्वान्जिनभवनादौ हिंस्यमानानां पृथ्व्यादिसत्त्वानां परिणामसुखस्य।अथ 204 गाथोक्तशुभभावोऽपि म्लेच्छभावसम इत्याह - वैदिकहिंसायां शुभभाव: म्लेच्छभावसम: चण्डिकादिपुरतो ब्राह्मणहत्यायां प्रवर्तमानाऽनार्यभावतुल्यः; दृष्टेष्टविरुद्धार्थाद् उभयलोकविरुद्धार्थाद् मोहेन प्रवृत्तत्वादिति / / 225 / / अथैकेन्द्रियादिभेदाद् न विशेष: कोपि यदुक्तं तत्परिहारार्थमाह - एकेन्द्रियादिभेदोऽप्यविशेषक्षेपकृत्तवापि स्यात् / शुद्रसहस्रेऽपि हते यन्न मता ब्रह्महत्येति / / 226 / / * टीका - हिंसाव्यतिकरे आस्तां पञ्चेन्द्रियजीवभेद एकेन्द्रियादिजीवभेदोऽपि पापहेतुरिति जैनै: स्वीक्रियते तथापि स भेदः तवापि वैदिकस्यापि शूद्रद्विजातिभेदेन अविशेषक्षेपकृत्जैनानां प्रति न विशेषतः क्षेपकारी यद् यस्मात् शुद्रसहस्रेऽपि हते न तव ब्रह्महत्या मता तथाऽल्पबहुत्वमत्रापि गुणदोषचिन्तायां ज्ञेयमिति / / 226 / / अल्पबहुत्वं भावयन्नाह - यतनातोऽल्पेयमपि ध्रुवं च सा सर्वधर्मसर्वस्वम् / परिणतजलदलशुद्ध्या सा च महार्थव्ययादत्र / / 227 / / महामहोपाध्याय श्री यशोविजय विरचितं 75 मार्गपरिशुद्धिप्रकरणंसटीकम्