________________ इत्यर्थः / / 219 / / नन्वेवं हिंसा निष्फला तर्हि मोक्षफलदेति कथं व्यवहियते इत्याशङ्क्याह - भक्त्या च व्यवहार : सान्निध्यात् स्थाद्यथा घृतं दहति / / इत्थं च कल्प्यहिंसा गुणयोगान्मोक्षफलदोक्ता / / 220 / / टीका - यथा दृष्टान्ते वह्नः सान्निध्यात् संयोगलक्षणाद् घृतं दहति इति व्यवहार : उपचार: स्यात्। इत्थम् एवं व्यवहाराज्जिनभवननिर्माणादिरूपद्रव्यस्तवेऽपि भक्त्या देवाधिदेवगतगुणबहुमानपुरस्सरं योपचारलक्षणा भक्तिस्तया गुणयोगात् सम्यक्त्वादिगुणयोगात् कल्प्यहिंसा अधिकारवशा विहितानुष्ठानं यथाविधि यतनापूर्वक विदधानस्य याऽनिवार्या हिंसा जायते सा कल्प्यहिंसा मोक्षफलदा मोक्षसम्पादिका उक्ता कथिता जिनगणधरैः / इदमुक्तं भवति -अधिकारिजीव: श्रीजिनभवननिर्मापणपूजादिलक्षणं शास्त्रविहितानुष्ठानं यथाविधि यतनापूर्वकं करोति तथापि याऽनिवार्यहिंसा जायते सा कल्प्यहिंसा भक्त्या सम्यक्त्वादिगुणयोगान्मोक्षफलदोक्ता। अत्रेदं तु ध्येयम् - विहितानुष्ठानं विदधानस्य प्रमादवशतोऽपि यो हिंसादिदोष: कदाचित् क्वचिज्जायते सोऽपि भक्तिवशानिरनुबन्धो भवतीति व्यक्तं कूपदृष्टान्तविशदीकरणप्रकरणे / / 220 / / यस्मादेवं तस्मान्नाऽधर्मोऽस्यां वैद्यज्ञातेन भवति गुणभावात् / / आपत्सुगुणतदन्याऽनिवृत्तितो वैदिकी नैवम् / / 221 / / ___टीका - यस्मात् कल्प्यहिंसा गुणयोगाद् मोक्षफला तस्मात् कारणात् न नैव अधर्म : पापं भवति जायते अस्यां जिनभवननिर्माणादिगतकल्प्यहिंसायां गुणभावाद् बोधिलाभादिमुक्तिगमनपर्यवसानफलप्राप्ते: वैद्यज्ञातेन शल्योद्धारक-चिकित्सकदृष्टान्तेन ईषत्पीडाकारित्वेऽपि आरोग्यकरणात्। नैवं न चैवं वैदिकी वेदगता हिंसा जिनभवनादिगतहिंसावद् गुणयोगान्मोक्षफलदा, हेतुमाह - आपत्सुगुणतदन्याऽनिवृत्तित: तामन्तरेणाऽपि जीवानां रागादिभावापदोऽभावात्, न च साधुनिवासादिवद्दृष्टा बोधिलाभादय: शोभना गुणाः, तथाऽनुपलब्धेः, न च तदन्याऽनिवृत्तित: हिंसायुक्तक्रियान्तर-निवृत्तेः, न हि प्राक् तद्वधप्रवृत्ता याज्ञिका: साधव: सञ्जाता इति / / 221 / / किञ्च भूत्यादिफलोद्देशप्रवृत्तितो मोक्षसाधिका नापि / मोक्षफलं च सुवचनं शिष्टं त्वर्थादिवचनसमम् / / 222 / / टीका - नाऽपि भूत्यादिफलोद्देशप्रवृत्तितो वैदिकी हिंसा मोक्षसाधिका, “श्वेतं वायव्यमजमालभेत भूतिकाम' इत्यादिश्रुतेः, आदिपदात् शत्रुजयार्थम्, मोक्षफलं च यद् वचनं तदेव सुवचनं शोभनाऽऽगम इत्यर्थः, शिष्टं तु शेषं तु अर्थादिवचनसमं फलभावेऽपि अर्थशास्त्रादितुल्यम्आदिपदात् कामसूत्रग्रहः, अनर्थकरत्वात्। तथा च पठन्ति पारमार्षाः यूपं छित्त्वा पशून हत्वा, कृत्वा रुधिरकर्दमम् / महामहोपाध्याय श्री यशोविजय विरचितं 74 मार्गपरिशुद्धिप्रकरणंसटीकम्