________________ - ये परप्राणिपर्याया न ते स्वफलहेतवः / / 136 / / अध्यात्मसार-आत्मनिश्चयाऽधिकारे / / 217 / / ननु परप्राणव्यपरोपणादिलक्षणस्य हिंसादेः परपरिणामात्मकत्वेनोदासीनत्वाद्माऽस्तु बन्धमोक्षोपायत्वं, किन्तु सम्यक्त्वस्य चारित्रस्य च जीवस्वपरिणामरूपेणाऽभ्युपगतस्यापि मोक्षोपायत्वेन च प्रसिद्धत्वात्, क्रमशो जिननामकर्मण आहारकनामकर्मणश्च बन्धोपायत्वेनाऽपि तत्र तत्र पठितत्वाच्च मोक्षोपाय एव बन्धोपाय:, बन्धोपाय एव मोक्षोपाय इत्यभ्युपगन्तव्यं स्यादित्याशङ्कायां निश्चयनयाभिप्रायेण ग्रन्थकार आह - सम्यक्त्वचरित्रे यत् तीर्थकराहारबन्धके तूक्ते / ते योगकषायाणां व्याप्त्या वैशिष्टयमात्रेण / / 218 / / टीका - सम्यक्त्वचरित्रे सम्यक्त्वं चारित्रं च तीर्थकराहारबन्धके तूक्ते क्रमशस्तीर्थकृन्नामकर्मण आहारकशरीरनामककर्मणश्च बन्धकारणं यद् उक्तं तत्तुशब्दो विशेषद्योतने ते सम्यक्त्वचारित्रे योगकषायाणां प्रशस्तमनोवाक्कायलक्षणयोगानां सरागसंयमगतप्रशस्तकषायाणां च व्याप्त्या अविनाभावेन वैशिष्ट्यमात्रेण वक्ष्यमाणनीत्या सम्यक्त्वचारित्रप्रयुक्तेन तीर्थकराहारबन्धके कथिते ज्ञातव्ये। इदमुक्तं भवति - विंशतिस्थानका राधनायां देववन्दनमन्त्रपदजपादिलक्षणयोगपरिणति: सकलसत्त्वहिताशयरूपप्रशस्तकषायपरिणतिश्च परमार्थतो जिननामकर्मबन्धहेतुः, किन्तु यदा यदानन्तरोक्ता योगपरिणतिः कषायपरिणतिश्च प्रवर्तते तदा तदा तीर्थकृज्जीवसत्कं विशिष्टसम्यक्त्वं विद्यत एवेति योगकषाया उक्तसम्यक्त्वेन व्याप्त्या विशिष्टा भवन्ति। इत्थं सम्यक्त्वमवय॑सन्निधानरूपेण सत्तां बिभर्तीति तीर्थकृनामकर्मबन्धकारणत्वेन व्यंपदिश्यते। परमार्थतस्तु सम्यक्त्वं मोक्षकारणमेव। तथा - प्रतिलेखनादिक्रियासु या विशिष्टतरा शुभयोगप्रवृत्तिः सरागसंयमेन च या प्रशस्तकषायपरिणति: साऽऽहारकशरीरनामकर्मबन्धकारणम्, किन्तूक्तशुभयोगपरिणति: कषायपरिणतिश्च यदा यदाऽऽत्मनि वर्तते तदा तदाऽतिशायिचारित्रमवश्यं विद्यत एवेत्यत्रापि योगकषाया उक्तचारित्रेण व्याप्त्या विशिष्टा भवन्ति। इत्थं चारित्रस्याऽवय॑सन्निधिरूपेण सत्त्वं विद्यते इति चारित्रमाहारकशरीनामकर्मबन्धकारणं कथ्यते। परमार्थतस्तु चारित्रमपि मोक्षकारणमेवेति / / 218 / / एवमेव जिनभवननिर्माणादौ जायमाना हिंसोदासीनेति निश्चेतुं ग्रन्थकार आह - .. तदिह यदंशे सम्यग्गुणप्रकर्षो न तेन बन्धोऽस्ति / अविरत्यंशेनाऽसावविशिष्टो निष्फला हिंसा / / 219 / / .. टीका - यस्मादनन्तरोक्तनीत्याऽत्याज्यसनिधाना: परपरिणामा उदासीनाः, स्वगतशुद्धपरिणामाश्च ये मोक्षोपायास्ते बन्धोपाया नैव भवितुमर्हन्ति तत् तस्माद् इह जिनभवननिर्माणादौ यदंशे यावन्मात्रायां सम्यग्गुणप्रकर्षो यथाविधि भगवद्भक्तियतनादिगुणोत्कर्षो मोक्षोपायभूत: तेन हेतुभूतेन गुणप्रकर्षेण न नैव बन्धोस्ति कर्मबन्धो विद्यते, अपितु तेन कर्मक्षय एव जायते। अविरत्यंशेन श्रावकस्य योऽविरतेरंशस्तेन असौ कर्मबन्धो जायते स: अविशिष्टः साधारण: सामान्यो निर्विशेष इति यावत्, न तु भवपरम्पराक: ।अत एव निष्फला निरनुबन्धा हिंसा पृथ्व्यादिप्राणव्यपरोपणम्। अयं भावः - उक्तनीत्या द्रव्यस्तवे याऽत्याज्यसन्निधानलक्षणा हिंसा जायते सा नैव मोक्षोपाया नैव च बन्धोपायाऽत एवोदासीना। केवलमेक एव भाव: फलदः प्रशस्तोऽप्रशस्तो वा प्रशस्तमप्रशस्तं फलं जनयितुं समर्थ महामहोपाध्याय श्री यशोविजय विरचितं 73 मार्गपरिशुद्धिप्रकरणंसटीकम्