________________ जनयति स एव दण्डश्चञ्चलप्रकृतिकशिशुरूपसहकारिवशाघटं विनाशयत्यपि। एवं हिंसाऽपि रागादिभावसहकारिवशाद् या बन्धोपाया सैव भगवद्भक्तिक्रियतनापरिणामादिसहकारियोगाद् मोक्षोपायाऽपि जायते, परन्तु निश्चयतो निश्चयनयाभिप्रायेण यो बन्धनोपायः स कथमपि केनापि प्रकारेण मोक्षोपायो भवितुं नैव अर्हति, आस्तां सहकारिभेदाऽभावे, सहकारिभेदेऽपि मोक्षोपायो न भवतीत्यर्थः, अत्र हेतुमाह - परस्परविरुद्धभावेन परस्परविरोधात्, कार्यभेदे कारणभेदादिति भावः / / 216 / / अत्र व्यवहारनयो निश्चयनयं प्रत्याह - हिंसालक्षणो यो बन्धोपाय: स कथमपि मोक्षोपायो भवितुं नार्हतीति प्रतिपाद्य यदि हिंसायां बन्धोपायत्वं स्वीकरीषि, मोक्षोपायत्वं च निराकरोषि, तर्हि भवदुक्तविपरीतमपि प्रतिपादयितुं शक्यम्, तथाहि - हिंसायां मोक्षोपायत्वमेवाऽस्तु माऽस्तु बन्धोपायत्वमित्यत्र को विनिगमक इति यत्किञ्चिदेतद्। एवं व्यवहारनयेनोक्ते सति निश्चयनय: स्वस्याभिप्रायमाविष्करोति - शद्धतरपरिणामौ निश्चयतो मोक्षबन्धोपायौ / अत्याज्यसन्निधानाः परपरिणामा उदासीनाः / / 217 / / टीका - हिंसायां नास्ति बन्धोपायत्वं नास्ति च मोक्षोपायत्वमपि, किन्तु निश्चयतो परमार्थचिन्तायां जीवगतौ शुद्धतरपरिणामौ स्वकीयशुद्धाशुद्धाध्यवसायौ मोक्षबन्धोपायौ ज्ञातव्यौ। केवलं जीवगत: प्रशस्तोऽप्रशस्तो भाव एव शुभाऽशुभं बन्धं प्रति मोक्षं प्रति च समर्थ इति परमार्थः, तथाहि - जिनभवननिर्माणादौ यतनापरिणामवतः श्रावकस्य समितिगुप्तिपालने चाऽप्रमत्तयते: पृथ्व्यादिहिंसायामपि जिनाज्ञापालनभक्तियतनादिपरिणामलक्षण: शुद्धपरिणामो मोक्षोपायत्वेन जायते, एवमेव हिंसाऽभावेऽपि तन्दुलमत्स्यादेरशुद्धाऽध्यवसायो बन्धोपायत्वेन प्रतीत एव। तथा चाह - परमरहस्समिसीणं समत्तगणिपिडगहत्थसाराणां। . परिणामिअंपमाणं निच्छयमवलंबमाणाणं / / 602 / / (पंचवस्तुके) नन्वेवं सत्यपि व्यवहारनय: अहिंसां मोक्षोपायत्वेन हिंसां च बन्धोपायत्वेन किमर्थं प्रतिपन्न इति चेद्, उच्यते - अहिंसादयः अत्याज्यसन्निधाना: अवय॑सन्निधय इति। अथैवं सत्यपि निश्चयनय: अहिंसादिकं मोक्षबन्धौ प्रत्यकारणत्वेन कथं प्रतिपन्न इति चेद्, उच्यते - परप्राणाव्यपरोपणादिलक्षणा अहिंसादयः परपरिणामाः परजीवादिगतपर्यायाः स्वकीयमोक्षबन्धौ प्रति उदासीना: अकिञ्चित्करा इति, यथा घटं प्रति दण्डस्य आयतवृत्तत्वरूपादय उदासीनाः / तथा चार्षः जे आसवा ते परिस्सवा, जे परिस्सवा ते आसवा, जे अणासवा ते अपरिस्सवा, जे अपरिस्सवा ते अणासवा (आचाराङ्ग 1-4-2 सू. 131) अस्याक्षरगमनिका - ये आश्रवास्ते परिश्रवाः - निर्जराऽऽस्पदानि भरतस्येव, ये परिश्रवास्ते आश्रवाः कण्डरिकस्येव, येऽनाश्रवाः - व्रतविशेषास्तेऽपि कर्मण: अपरिश्रवा: कोकणार्यप्रभृतीनामिव, येऽपरिश्रवास्ते कणवीरलताभ्रामकस्येव अनाश्रवा भवन्तीति। तथा - निमित्तमात्रभूतास्तु हिंसाऽहिंसादयोऽखिलाः / महामहोपाध्याय श्री यशोविजय विरचितं 72 मार्गपरिशुद्धिप्रकरणंसटीकम्