SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ टीका - तत्र मन्दिरे पुरुषोत्तमप्रतिष्ठा भगवद्विम्बप्रतिष्ठा, तथा तत्समीपे साधुनिवास: प्रतिश्रयादौ, देशना जगीवहिता मोहोच्छेदात्, ध्यानं धादि चशब्द: समुच्चये, जायते एकैकं पुरुषोत्तमप्रतिष्ठादि भावापन्निस्तरणगुणं रागादिभावापन्निस्तरणसमर्थमेव हिशब्दोऽवधारणे भव्यानां भव्यसत्त्वानामिति / / 213 / / एवं पृथ्व्यादीनां पीडाकृदपि हिंसा युक्तेत्याह - इत्थं पृथ्व्यादीनां पीडाकृदपीह सङ्गता हिंसा / अन्येषां गुणसाधनयोगात् प्रत्यक्षसंसिद्धात् / / 214 / / टीका - इत्थं अनन्तरोक्तनीत्या भव्यानां भावापन्निस्तरणगुणा जिनमन्दिरनिर्माणादौ पृथ्व्यादीनां जीवानां पीडाकृदपि हिंसा सङ्गता युक्तियुक्ता।अत्र हेतुमाह - अन्येषां पृथिव्यादिव्यतिरिक्तानां भव्यजीवानां प्रत्यक्षसंसिद्धात् स्वानुभूतिसिद्धाद् गुणसाधनयोगात्, तथाहि - तद्दर्शनाद् गुणानुरागितया भव्यानां बोधिलाभः, पूजातिशयविलोकनादिना च मन:प्रसत्तिः, तत: समाधिः, ततश्च क्रमेण निःश्रेयसप्राप्तिरिति। तथा च भगवान् पञ्चलिङ्गीकारः - "पुढ़वाइयाण जइवि हु होइ विणासो जिणालयाहिन्तो। तव्विसया वि सुदिठुिस्स णियमओ अत्थि अणुकंपा / / 1 / / एयाहिंतो बुद्धा विरया रक्खन्ति जेण पुढवाई / इत्तो निव्वाणगया अबाहियाआभवमिमाणं / / 2 / / रोगिसिरावेहो इव सुविज्जकिरिया वसुप्पउत्ताओ। परिणामसुंदरच्चिय चिट्ठा से बाहजोगे वि / / 3 / / एतदेवाह - आरम्भवतश्चासावारम्भान्तरनिवृत्तिदा प्रायः / इत्थं निदानरहिता कथिता निःश्रेयसफलाय / / 215 / / ____टीका - इत्थम् अनन्तरोक्तनीत्याऽन्येषां गुणसाधनयोगाद् आरम्भवतश्च गृहिणश्च असौ जिनभवननिर्माणादौ पृथ्व्यादिपीडाकृद्धिंसा आरम्भान्तरनिवृत्तिदा कृषिवाणिज्याद्यारम्भनिवृत्तिप्रदा विधिना कारणात् प्रायो बाहुल्येन, एतच्च सनिदानस्य व्यवच्छेदार्थम्। एतदेवाह - निदानरहिता ऐहिकामुष्मिकफलाभिसन्धिरहिता कथिता विहिता जिनगणधरैः सर्वत्यागेन निःश्रेयसफलाय - मोक्षफलायेति / / 215 / / अत्र परमार्थमाह - व्यवहारवचनमेतन्निश्चयतो नैव बन्धनोपायः। . मोक्षोपायः कथमपि परस्परविरुद्धभावेन / / 216 / / टीका - अनन्तरगाथायां “कल्प्यहिंसा मोक्षफलदे"ति यदुक्तं तद् एतद्व्यवहारवचनं व्यवहारनयाभिप्रायेणोक्तं द्रष्टव्यम्, यत एतन्नयाभिप्रायेण सहकारिभेदेन कार्यभेदो भवति यथा कुम्भकारलक्षणसहकारियोगाद् यो दण्डो घटं महामहोपाध्याय श्री यशोविजय विरचितं 71 मार्गपरिशुद्धिप्रकरणंसटीकम्
SR No.004398
Book TitleMargparishuddhi Prakaranam
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherBhidbhanjan Parshwanath Jain Sangh
Publication Year2002
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy