________________ टीका - एकस्य वेदवचनस्य संसारमोचकशास्त्रापेक्षया सम्यक्त्वे समीचीनतायां न नैव विनिगमना एकतरपक्षपातियुक्तिः। अथ लोक एव प्रमाणमित्याशङ्कयाह - नैतत्तथा, लोकत: दयादिगुणगणोपेतविशिष्टलोकमपेक्ष्य विगानाच्च यज्ञस्थलीयहिंसायास्तिरस्काराच्च। न हि यज्ञीयहिंसाप्रतिपादकं वेदवचनं प्रमाणमित्येकवाक्यता लोकस्य साङ्ख्यादिभिस्तदनभ्युपगमादिति। ननु केवलं यज्ञादिप्रतिपादके स्वल्प एव वेदवचने साङ्ख्यादीनां विगानम्, न तु कृत्स्नवेदप्रामाण्ये इत्याऽऽशङ्कायामाह - स्तोकस्यापि स्वल्पस्यापि वेदवचनस्य विगाने प्रामाण्यवैकल्ये व्यभिचाराद् 'वेदवचनं प्रमाणमेवे ति प्रतिज्ञाया विलोपात्। कुत:? इत्यत आह - देशभेदेन ‘मा हिंस्यात् सर्वभूतानि' इत्यादेः सकाशाद् भिन्ने श्वेतं वायव्यमजमालभेत भूतिकामः' इत्यादौ वेदवचने तत्प्रामाण्यमननुपत्तिकमेवेति यावद्भावः। यदि वा पञ्चवस्तु टीकानुसारेण व्याख्यायते एकस्य वेदवचनस्य सम्यक्त्वे समीचीनतायां न नैव विनिगमना एकतरपक्षपातियुक्तिः। अथ लोक एव प्रमाणमित्याशङ्कायामाह - नैतत्तथा, लोकत: लोकस्य प्रमाणतयाऽपाठात्, प्रमाणमध्ये षट् संख्याविरोधात्तथा विगानाच्च निन्दनीयत्वाच्च, न हि वेदवचनं प्रमाणमित्येकवाक्यता लोकस्येति। अथ पाठोऽभिमत एव लोकस्य प्रमाणमध्ये षण्णामुपलक्षणत्वात्। विगानमपि वेदवचनप्रामाण्ये स्तोकलोकानामित्येतदाशङ्कयाह - एवं कल्पनायां न प्रमाणम्, स्तोकस्यापि स्तोकानामपि विगाने तिरस्कारे व्यभिचारात् प्रतिज्ञालोपात्, तथा देशभेदेन क्षेत्रभेदेन वर्तमानानां सर्वेषां लोकानामदर्शनाच्च अल्पबहुत्वे निश्चयाभावादिति / / 206 / / उपपत्त्यन्तरमाह अविगानमपि बहूनां मूढेतरभावतो न विनिगमकम् / नीरागश्चन कश्चिद् भवेदसर्वज्ञवादिमते / / 207 / / टीका - आस्तां विगानम् अविगानमपि एकवाक्यताऽपि बहूनां लोकानां न नैव विनिगमकं प्रामाण्यनिश्चायक मूढेतरभावत: बहूनामपि मूढव्यापारभावात् स्तोकानामपि चाभावात्। न च नीराग: रागादिरहित: सर्वज्ञः कश्चित् प्रमाता भवेद् जायेत असर्वज्ञवादिमते परपक्षवैदिकमते य एवं वेद वैदिकमेव प्रमाणं नेतरदिति / / 207 / / दोषान्तरमाह - . .. म्लेच्छानामप्येवं वाङ्मात्राद्धर्मदुष्टता न स्यात् / द्विजवरमपि घातयतां पुरतो ननु चण्डिकादीनाम् / / 208 / / टीका - ननु आक्षेपे एवं प्रमाणविशेषाऽपरिज्ञाने सति वाङ्मात्राद् वचनमात्रात् चण्डिकादीनां चण्डिकाकात्यायनीप्रभृतीनां पुरत अग्रे आस्तां पश्चादिकं द्विजवरमपि वेदविद्ब्राह्मणमपि घातयतां बलिं विदधतां म्लेच्छानामपि अनार्याणामपि धर्मदुष्टता धर्मार्थं दोषप्रसङ्गो न नैव स्याद् भवेदिति / / 208 / / ननु तन्म्लेच्छवचनं लोकेऽत्र न रूढमित्याशङ्कयाह - अन्यतरारूढत्वं सममुभयत्राप्यसंस्कृतत्वं च / . उत्सन्नशाखवेदाशङ्कापि निवर्तते नेह / / 209 / / महामहोपाध्याय श्री यशोविजय विरचितं 69 मार्गपरिशुद्धिप्रकरणंसटीकम्