________________ अनन्तरोक्तनीत्या वेदविहिता वेदोपदिष्टा हिंसा यज्ञविधौ पशुबलिलक्षणा अनिष्टा भवतां जैनानामनभिमता इति एवं को मोह : व्यामोहः? वेदविहितहिंसायामेवाऽनिष्टत्वाऽभ्युपगमो नन्याय्यः, उभयपक्षे हिंसाया: साधारणत्वादिति भावः / / 202 / / एतदेवाह पर: - इह समता पीडायाः परिणामसुखस्य चापि हिंस्यानाम् / अपि पापपुण्यजनने व्यभिचारो वैद्यजाराभ्याम् / / 203 / / टीका - इह जिनभवननिर्माणादौ वेदविहितयागे च समता तुल्यत्वं पीडायाः प्राणनाशलक्षणाया: परिणामसुखस्य चाऽपिवधानन्तरं देवत्वाप्तेश्च उभयत्र तुल्यत्वं हिंस्यानां वध्यमानानां सत्त्वानामिति वेदविहितहिंसायां कोऽनिष्टत्वमोहः? अस्ति चागमाख्यप्रमाणम् - औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा / यज्ञार्थं निधनं प्राप्ता: प्राप्नुवन्त्युच्छ्रितं पुनः / / मनुस्मृतौ 5-40 / / इत्यादि। उपपत्त्यन्तरमाह - न च पीडात: पापं सुखप्रदानत: पुण्यमिति नियम एकान्तेन यत: पुण्यपापजननेऽपि व्यभिचार : तद्भावभावित्वाभाव: वैद्यजाराभ्यां वैद्येन चिकित्सायां पीडाकरणेऽपि पापाभावाद् जारेण पारदारिकेन च सुखजननेऽपि पुण्याभावादिति / / 203 / / किञ्च - स्यात्तत्र शुभो भावो नन्वयमितरत्र तुल्यतामेति / एकेन्द्रियादिभेदान्न विशेष : कोऽपि विहितविधेः / / 204 / / टीका - स्यात् भवेत् तत्र जिनमन्दिरनिर्माणादौ शुभो भावः हिंसां कुर्वत इत्येतदाशङ्कयाह पर: - ननुशब्द आमन्त्रणे अयं शुभो भाव: इतरत्र वेदविहितहिंसां कुर्वति तुल्यतामेति समतां प्राप्नोति। अथ जिनभवनादौ प्रतनुचैतन्यानां पृथ्व्यादीनां हिंसा भवति, वेदविहितयागे तु पञ्चेन्द्रियाणां हिंसा भवतीति महान् विशेष इति चेद्, न विशेषः कोऽपि न कश्चिद् भेदः एकेन्द्रियादिभेदाद् एकेन्द्रियपञ्चेन्द्रियविशेषात्, अत्र हेतुमाह - विहितविधे: धर्मार्थं सर्वेव हिंसा न दुष्टेति भावः / / 204 / / एवं पूर्वपक्षमाशङ्कयाह सिद्धान्ती - एतदपि न युक्तिसहं वाङ्मात्रस्याप्रयोजकत्वेन / संसारमोचकानामपि धर्म: स्यादपरथा तु / / 205 / / टीका - एतदपि अनन्तरं यदुक्तं परेण तदपि न नैव युक्तिसहं युक्तिक्षमम्। कुत इत्याह - वाङ्मात्रस्य वचनमात्रस्याऽनुपपत्तिकस्य तत्त्वनिर्णये अप्रयोजकत्वेन अकिञ्चित्करत्वात्।अपरथा तुअनुपपत्तिकस्यापि वचनमात्रस्य प्रयोजकत्वेनाऽभ्युपगमे तु संसारमोचकानामपि वचनाद्धिंसाकारिणामपि धर्म: स्यात्धर्मप्रसङ्गाद् अदोषप्रसङ्गाच्चेति / / 205 / / ननु संसारमोचकवचनं न सम्यग, वेदवचनं तु सम्यगित्याशङ्क्याह - एकस्य न सम्यक्त्वे विनिगमना लोकतो विगानाच्च / स्तोकस्यापि विगाने व्यभिचाराद्देशभेदेन / / 206 / / महामहोपाध्याय श्री यशोविजय विरचितं 68 गापिरिशुद्धिप्रकरणंसटीकम