________________ अत्र सूत्रसाक्ष्यमाह सूत्रे हि पूजनादिरेतत्सम्पादनार्थमुच्चारः। नो चेत्तदनर्थत्वं साक्षात्तु न भावसारेऽसौ / / 200 / / टीका - सूत्रे हि “अरिहंतचेइयाणं वंदणवत्तियाए"। इत्यादिलक्षणे चैत्यवन्दनासूत्रे यः पूजनादिः 'पूअणवत्तियाए सक्कारवत्तियाए' इत्यादिरूप उच्चार: उद्घोषः स एतत्सम्पादनार्थं द्रव्यस्तवसम्पादनार्थं यतेरपि न्याय्यः। नोचेद् अनन्तरोक्तं सूत्रोच्चारणं यदि येतरपि द्रव्यस्तवसम्पादनार्थं न स्यात्तर्हि तदनर्थत्वं तत्सूत्रोच्चरणस्य वैयर्थ्यं स्यात्। न च तदनुच्चारणेन सा वन्दना भणिता यतेः, तस्माद् विशिष्टेच्छारूपेण सम्पादनमिष्टं द्रव्यस्तवस्येति।। स्यादेतत्, भवदुक्तनीत्या तु यतीनामपि साक्षाद् द्रव्यस्तव: करणतयाऽऽपद्यतेति चेद्, मैवं, साक्षात् करणतया तुशब्दो विशेषद्योतने यतीनां भावसारे भावप्रधाने संयमे कृत्स्नसंयमद्रव्याभावाभ्यां हेतुभ्याम् असौ द्रव्यस्तव: न नैव विहितः / इत्थं यतीनां द्रव्यस्तवानुमोदनादिनिषेधो नास्ति, अपितु स्वयं करणतया निषेधोऽवगन्तव्यः / इदमुक्तं भवति - भावप्रधाना हि.मुनय इतिकृत्वा द्रव्यस्तवस्तेषां गौण इति / / 20 / / तर्हि साक्षात् करणतया केषामित्याह साक्षादपि गृहिणां पुनरयमुचितो भावकारणत्वेन / आकर्ण्यते यतीनां कारणमपि देशना चात्र / / 201 / / टीका - आस्तां कारणानुमतिभ्यां साक्षादपि करणतया गृहिणां श्रावकाणां पुन:शब्दो विशेषद्योतने अयं द्रव्यस्तव: उचितो न्यायोपेत: स्वरूपेणैव संसारप्रतनुकरण: भावकारणत्वेन शुभानुबन्धेन भावस्तवस्य हेतुत्वात् कूपदृष्टान्तेन। आकर्ण्यते श्रूयते चागमे वर्षिणा कारणमपि तत्त्वत: करणमपि अनुष्ठितमेतस्य द्रव्यस्तवस्य तदुक्तं - माहेसरीउ सेसा, पुरिअंनीआ हुआसणगिहाओ / गयणयलमइवइत्ता वइरेण महानुभागेण / / आ.नि.गा.७७२ / / एवं यतीनां साधूनां न केवलमनुमोदनं द्रव्यस्तवस्य कारणमपि श्रावकैरिति गम्यते उपदेशद्वारा। एतदेवाह - देशना पूजाविधिसदुपदेशदानं चात्र द्रव्यस्तवविषये श्रूयते, तथाहि - कर्तव्या जिनपूजा, न खलु वित्तस्याऽन्यच्छुभतरं स्थानमितिवचनसन्दर्भेण। तत्कारणमेतत्।अनवद्यं च तद् दोषान्तरनिवृत्तिद्वारेण।अयमत्र प्रयोजकोंऽशः, तथाभावत: प्रवृत्तेः, उपायान्तराभावात्। नागभयसुतगर्ताकर्षणज्ञातेन भावनीयमेतत्। तदेवं साधुरित्थमेवैतत्सम्पादनाय कुर्वाणो नाऽविषयः, वचनप्रामाण्यात्, इत्थमेवेष्टसिद्धेः, अन्यथाऽयोगादिति / / 201 / / अत्र पर आह नन्वेवं हिंसाऽपि हि धर्माय न दुष्यतीति सम्प्राप्तम् / एवं च वेदविहिता हिंसाऽनिष्टेति को मोहः / / 202 / / टीका - ननु आक्षेपे एवं भवदुक्तनीत्या द्रव्यस्तवविधाने हिंसाऽपि प्राणिप्राणव्यापत्तिरपि हि हेतौ यस्माद् धर्माय तस्माद्न नैव दुष्यति दोषकारिणी इति एवं सम्प्राप्तं स्थितं न्यायत: तामन्तरेण द्रव्यस्तवाभावात्। एवं च महामहोपाध्याय श्री यशोविजय विरचितं 67 मार्गपरिशुद्धिप्रकरणंसटीकम्