________________ कारणमपि द्रव्यभावस्तवलक्षणसाधनमपि समभिलषितम् अभिवाञ्छितं भवति। अत्रार्थे दृष्टान्तमाह - इव यथा आहारजतृप्तिम् अशनादितो जायमानां तृप्तिं संतुष्टिम् अभिवाञ्छताऽभिलषता आहार : अशनादिरप्यभिलषित एवेति / / 196 / / एतदेव स्पष्टयति - जिनभवनकारणाद्यपि भरतादीनां न वारितं तेन / तेषां यथैव कामाः शल्यविषादिभिरुदाहरणैः / / 197 / / टीका - आस्तां समवसरणे बल्यादि, जिनभवनकारणाद्यपि अष्टापदादिषु जिनायतननिर्मापणाद्यपि आदिपदाज्जिनबिम्बपूजादिपरिग्रह: भरतादीनां भरतचक्रिबाहुबल्यादीनां न नैव निवारितं प्रतिषिद्धं तेन भगवता ऋषभस्वामिना यथा येन प्रकारेण एवकारोऽवधारणे भिन्नक्रमश्च तेषां भरतादीनामेव कामाः शब्दादयो निवारिता: शल्यविषादिभिरुदाहरणैः प्रतीतैः। तथा चागम: - सल्लंकामा विसं कामा, कामा आसीविसोवमा। कामे पत्थेमाणा, अकामा जंति दुग्गई / / उत्तराध्ययनेषु अ.९ गा.५३) / / 197 / / निष्कर्षमाह अनुमतमिदमपि तस्मादप्रतिषेधेन तान्त्रिकन्यायेन शेषाणामप्येवं सङ्गतमस्यानुमत्यादि / / 198 / / टीका - तस्मात् कारणाद् आस्तां समवसरणे, बल्यादि इदमपि निनभवनकारणाद्यपि अनुमतम् अनुज्ञातं ऋषभस्वामिना अप्रतिषेधेन अनिवारणेन तान्त्रिकन्यायात् शास्त्रीयन्यायात् ‘परमतमप्रतिषिद्धमनुमतमिति'लक्षणात्। एवम् अनन्तरोक्तनीत्या शेषाणामपि अद्यतनयतीनामपि सङ्गतं युक्तियुक्तम् अस्य जिनभवनकारणादे: अनुमत्यादि अनुमोदनमुपदेशदानेन च कारणमपीति / / 198 / / युक्त्यन्तरमाह - यश्च चतुर्धा विनयो भणितस्तत्रोपचारिको यश्च / स हि तीर्थकरे नियमान भवेद् द्रव्यस्तवादन्यः / / 199 / / टीका - यश्च ज्ञानदर्शनचारित्रौपचारिकभेदात् चतुर्धा चतुष्पकारो विनयो धर्ममूलत्वेन प्रतीत: स भणित उपदिष्टो जिनगणधरैः, तत्र विनयमध्ये औपचारिक उपचारप्रधान: स औपचारिको विनयो हिशब्दो हेतौ यस्मात् तीर्थकरे क्षेत्रकालव्यवहितार्हद्विषये नियमाद् अवश्यतया न नैव भवेद् जायेत द्रव्यस्तवाद् विना अन्यः, अपि तु द्रव्यस्तव एव, तस्मादपि द्रव्यस्तव: अभ्युपगन्तव्यः / औपचारिकविनयस्वरूपं त्वेवम् - तित्थयर सिद्धकुलगणसंघकिरियधम्मनाणनाणीणं / आयरियथेरुवज्झाय गणीणं तेरस पयाणि / / अणासायणा य भत्ती, बहुमाणो तह य वण्णसंजलणा। तित्थयरादी तेरस चऊगुणा होंति बावन्ना / / (प्र.सा.गा.५५०-५१) / / 199 / / महामहोपाध्याय श्री यशोविजय विरचितं 66 मार्गपरिशुद्धिप्रकरणं सटीकम्